________________
[श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणम् ]
--
[शिखरिणीवृत्तम्] क्षमापालावल्यां प्रथमपदवी प्राप भुवि यो, युगादौ विज्ञप्तः कृतकलकलैरार्त्तयुगलैः ।
कलानामालीर्योऽगमयत समुल्लासपदवीं, सदा स स्यादायो वृषभजिनराड् मङ्गलकृते ॥२॥
[शार्दूलविक्रीडितवृत्तम् ] खाङ्गोत्थामिषतोऽपि पत्रिशकुनेः पारापतं यः पपौ, गर्भङ्गोऽप्यशिवोपशान्तिमखिलां चक्रे जनानां मुदे ।
त्यक्त्वा चञ्चलचारुचक्रिकमलां यो धर्मचक्री बभौ, सोऽयं शान्तिजिनेश्वरो वितरताच्छान्ति सदा शान्तरुक् ॥३॥
[स्रग्धरावृत्तम्] नौमि श्रीनेमिनाथं विबुधपतिनतं ज्ञातविश्वस्वरूपं, संत्यक्ताशेषदोषप्रियकलितशिवानन्ददानकदक्षम् । .
आबाल्याद् ब्रह्मचर्य सुदधतममलं भोगराजी विहायाऽऽशातीतोच्चक्षमाभृच्छिरसि धृतपदाम्भोजधूलीपरागम् ॥४॥
[उपजातिवृत्तम्] मुदेऽस्तु वः पार्श्वजिनेशदेवो, फलं प्रशस्य वितनोति यश्च। संतापहो निर्मलजीवनश्च, गभीरनादोल्लसितः सविद्युत् ॥५॥
शार्दूलविक्रीडितवृत्तम्] सोऽयं वीरजिनेश्वरो विजयतां, योWश्शचीशैस्सदा, रागाधान्तरशत्रवोऽतुलबला येनाहता ज्ञानिना ।