Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 15
________________ [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] । अथ विविधा विभक्तयः। कुतश्चिदवधेर्विवक्षितस्याध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याऽध्ववाचिशब्दस्याध्वन एवाऽन्तवाचिना सह सामानाधिकरण्यं वा भवति । तद्विभक्तिस्तस्माद्भवतीत्यर्थः । कदा? गते गम्येऽप्रयुज्यमाने सति । यथागवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्पु वा योजनेषु । एवं लोकमध्याल्लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति, सप्तसु रज्जुषु वा ॥ ___ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौणानाम्नोऽनादरे गम्यमाने षष्ठी विकल्पेन भवति, पक्षे च सप्तमी स्यात् । यथा-रुदतो लोकस्य रुदति लोके वा प्रावाजीत् । क्रोशतो बन्धुवर्गस्य कोशति बन्धुवर्गे वा प्राब्राजीत् । रुदन्तं क्रोशन्तं वाऽनादृत्य प्रव्रज्यां दीक्षां गृहीतवानित्यर्थः ॥ जातिगुणक्रियादिमिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् गम्यमाने गौणानाम्नः षष्ठी सप्तमी च भवत: । कदा ? 'अविभागे' निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथंचिदैक्ये शब्दाद्गम्यमाने। यथाक्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । धावन्तो यातां यात्सु वा शीघ्रतमाः । युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा ॥ ___ अल्पीयोवाचिना अधिकशब्देन योगे भूयोवाचिनो गौणानाम्नः सप्तमीपञ्चम्यौ भवतः । यथा-अधिको द्रोणः खार्या खार्या वा ॥ ___ भूयोवाचिनाऽधिकशब्देन युक्तादल्पीयोवाचकाद् गौणानाम्नस्तृतीया भवति, यथा-अधिका खारी द्रोणेन ॥ पृथग्नानाशब्दाभ्यां युक्ताद् गौणानाम्नः पञ्चमी तृतीया च भवतः, यथापृथग्मैत्रात् मैत्रेण वा । नाना चैत्रात् चैत्रेण वा ॥ . ऋतेशब्देन युक्ताद् गौणानाम्नो द्वितीया पञ्चमी च भवति । 'ऋते' इति वर्जनार्थकमव्ययम् । ऋते धर्म धर्माद्वा कुतः सुखम् ? । नाङ्गं विक्रियते रोग रोगाद्वा ऋते ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 228