Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 13
________________ १० [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] प्रमृत्यथैरन्याथैदिक्शब्दैर्बहिरारादितरैश्च युक्ताद् गौणाजान्नः पञ्चमी भवति; यथा-ततः प्रभृतिः; ग्रीष्मादारभ्य । अन्यो भिन्नो वा मैत्रात्। ग्रामात् पूर्वस्यां दिशि वसति; उत्तरो विन्ध्यात् पारियात्रः; पश्चिमो रामाद् युधिष्ठिरः । बहिर् आराद् इतरो वा ग्रामात् ॥ _ आरादथैर्युक्तानाम्नः पञ्चमी विकल्पेन भवति, पक्षे च षष्ठी स्यात् । आराद्दरमन्तिकं च । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा। अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ॥ अथ षष्ठी शेषेऽर्थे षष्ठी भवति । उक्तादन्यः शेषः । कादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धविशेषः शेषस्तत्र षष्ठी भवति; यथा-राज्ञः पुरुषः । उपगोरपत्यम् ।.माषाणामश्रीयात् ॥ रि-रिष्टात्-स्तात्-अस्तात्-अस्-अतस्-आत्-एतत्प्रत्ययान्तैर्युक्ताद् गौणामानः षष्ठी स्यात्; यथा-उपरि, उपरिष्टात्, परस्तात्, पुरस्तात्, पुरः, दक्षिणतः, उत्तराद्वा ग्रामस्य ॥ कृदन्तस्य कर्मणि षष्ठी स्यात् ; यथा-अपां. सृष्टा । गवां दोहः ॥ . कृदन्तस्य कर्त्तर्यपि षष्ठी भवति; यथा-भवत आसिका ॥ . कृत्यप्रत्ययान्तस्य कर्तरि षष्ठी विकल्पेन भवति, पक्षे तृतीया च; यथा त्वया तव वा कृत्यः कटः । ( ध्यणतव्यानीययक्यपः कृत्याः ) तृन्प्रत्ययान्तस्य, उकारान्तप्रत्ययान्तस्य, अव्ययस्य, कसुप्रत्ययान्तस्य, कानप्रत्ययान्तस्य, शानप्रत्ययान्तस्य, आनश्प्रत्ययान्तस्य, अतृश्प्रत्ययान्तस्य, शतृप्रत्ययान्तस्य, डिप्रत्ययान्तस्य, णकच्प्रत्ययान्तस्य, खलर्थकप्रत्ययान्तस्य च कर्मणि कर्तरि च षष्ठी न स्यात् । यथा-तृन्, वदिता जनापवादान् । उदन्तः, कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्त्वम् । अव्ययम् , कटं कृत्वा; ओदनं भोक्तुं व्रजति । कसुः, तत्त्वं विद्वान् ; ओदनं पेचिवान् । कानः, कटं चक्राणः । शानः, मलयं पव:

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 228