Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 11
________________ [ श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] यस्य भेदिनो भेदैस्तद्वतोऽर्थस्य निर्देशो भवति तद्वाचिनो नाम्नस्तृतीया स्यात् यथा - अक्ष्णा काणः । पादेन खञ्जः । प्रकृत्या दर्शनीयः । गोत्रेण काश्यपः । जात्या ब्राह्मणः । वर्णेन गौरः । उरसा विशालः ॥ निषेधार्थैः कृतादिशब्दैर्युक्तानाम्नस्तृतीया भवति यथा - कृतं तेन । किं गतेन । ( कृतम्, भवतु, अलम् किम् - एवंप्रकाराः कृतादयः) ॥ अथ चतुर्थी । सम्प्रदाने वर्त्तमानाद् गौणान्नाम्नश्चतुर्थी भवति, यथा - शिष्याय धर्ममुपदिशति । द्विजाय गां ददाति ॥ " तादर्थ्ये (किंचित् वस्तु सम्पादयितुं यत्प्रवृत्तं तत्तदर्थम्, तस्य भावे) सम्बविशेषे द्योत्ये गौणानाम्नश्चतुर्थी स्यात्, यथा-यूपाय दारु । रन्धनाय स्थाली ॥ रुच्यर्थकधातुना योगे प्रेयेऽर्थे वर्त्तमानात् क्लुप्यर्थकधातुना योगे विकारेऽर्थे वर्त्तमानात्, धारिणा धातुना च योगे उत्तमर्णेऽर्थे वर्त्तमानाञ्च गौणान्नाम्नचतुर्थी भवति । यथा - जिनदत्ताय रोचते धर्मः । ब्राह्मणाय रोचते मोदकः । मूत्राय कल्पते यवागूः । मैत्राय शतं धारयति ॥ आकस्मिकनिमित्तेन ज्ञाप्येऽर्थे वर्त्तमानाद् गौणान्नाम्नश्चतुर्थी स्यात्, यथा 'वाताय कपिला विद्यु- दातपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षा "सिता भवेत् ॥ १ ॥ <" " श्लाघ- हु-स्था-शप-धातुभिर्युक्ताज्ज्ञाप्ये प्रयोज्ये वर्त्तमानाद् गौणान्नाम्न·श्वतुर्थी भवति, यथा-मैत्राय श्लाघते हुते तिष्ठते शपते वा ॥ क्रियायां क्रियार्थायामुपपदे 'तुम्' 'प्रत्ययो भवति, तदर्थे ये भाववाचिनो 'घादयो भवन्ति, तदन्ताद् गौणान्नाम्नः स्वार्थे चतुर्थी स्यात् यथा - पाकाय इज्यायै वा व्रजति ॥ - गम्यस्य तुमो व्याप्ये वर्त्तमानाद् गौणानाम्नश्चतुर्थी भवति यथा एभेभ्यः फलेभ्यो वा ब्रजति ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 228