Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[श्रीस्यायन्तरत्नाकरे विभक्तिनिरूपणम् ]
अधोऽधो ग्रामं प्रामाः । अध्यधि ग्राम क्षेत्राणि । उपर्युपरि ग्रामं प्रामाः । सर्वत उभयतोऽमितः परितो ग्रामं वनानि क्षेत्राणि वा ॥
लक्षणे बीप्स्ये इत्थंभूते चार्थे वर्तमानानाम्न अमि-प्रति-परि अनु इत्येतैर्योगे सति द्वितीया भवति, यथा-वृक्षमभि, प्रति, परि, अनु वा विद्योतते विद्युत् । वृक्षं वृक्षममि, प्रति, परि, अनु वा सेकः । साधुमैत्रो मातरममि, प्रति, परि, अनु वा ॥
भागिन्यर्थे वर्तमानानाम्नः प्रति-परि-अनुशन्दैोंगे सति द्वितीया भवति, यथा-यदत्र मां प्रति, परि, अनु वा स्यात्तद्दीयताम् ॥
हेत्वर्थे सहार्थे वर्तमानानाम्नोऽनुशन्देन सह योगे सति द्वितीया भवति, यथा-जिनजन्मोत्सवमन्वागच्छन् सुराः । नदीमन्ववसिता पुरी ॥
उत्कृष्टेऽर्थे वर्तमानानाम्नोऽनूपाभ्यां योगे सति द्वितीया भवति, यथा-अनु सिद्धसेनं कवयः। अनु मल्लवादिनं तार्किकाः । अनु हेमचन्द्रं वैयाकरणाः । उपोमास्वाति सङ्ग्रहीतारः । उप जिनभद्रगणिक्षमाश्रमणं व्याख्यातारः । उप यशोविजयोपाध्यायं नव्यतार्किकाः। तस्मादन्येहीना इत्यर्थः ॥.
अत्यन्तसंयोगे सति कालेऽध्वनि च वर्तमानानाम्नो द्वितीया भवति, यथामासं गुडधानाः, कल्याणी, अधीते वा । कोशं पर्वतः, कुटिला नदी, अधीते वा ॥
क्रियाविशेषणवाचिनो नाम्नो द्वितीया भवति, यथा-स्तोकं पचति । सुखं स्थाता ॥
__ अथ तृतीया। हेतौ कर्तरि करणे इत्थंभूतलक्षणे च वर्तमानाबाम्नस्तृतीया स्यात्, यथा-धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । जटामिस्तापसः ॥
सहाथै गम्यमाने गौणानाम्नस्तृतीया भवति, यथा-पुत्रेण सहागतः । "एकेनाऽपि सुपुत्रेण, सिंही स्वमिति निर्भरम् । सहैव दशमिः पुरै-भार वहति गर्दनी ॥ ॥"

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 228