SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ [श्रीस्यायन्तरत्नाकरे विभक्तिनिरूपणम् ] अधोऽधो ग्रामं प्रामाः । अध्यधि ग्राम क्षेत्राणि । उपर्युपरि ग्रामं प्रामाः । सर्वत उभयतोऽमितः परितो ग्रामं वनानि क्षेत्राणि वा ॥ लक्षणे बीप्स्ये इत्थंभूते चार्थे वर्तमानानाम्न अमि-प्रति-परि अनु इत्येतैर्योगे सति द्वितीया भवति, यथा-वृक्षमभि, प्रति, परि, अनु वा विद्योतते विद्युत् । वृक्षं वृक्षममि, प्रति, परि, अनु वा सेकः । साधुमैत्रो मातरममि, प्रति, परि, अनु वा ॥ भागिन्यर्थे वर्तमानानाम्नः प्रति-परि-अनुशन्दैोंगे सति द्वितीया भवति, यथा-यदत्र मां प्रति, परि, अनु वा स्यात्तद्दीयताम् ॥ हेत्वर्थे सहार्थे वर्तमानानाम्नोऽनुशन्देन सह योगे सति द्वितीया भवति, यथा-जिनजन्मोत्सवमन्वागच्छन् सुराः । नदीमन्ववसिता पुरी ॥ उत्कृष्टेऽर्थे वर्तमानानाम्नोऽनूपाभ्यां योगे सति द्वितीया भवति, यथा-अनु सिद्धसेनं कवयः। अनु मल्लवादिनं तार्किकाः । अनु हेमचन्द्रं वैयाकरणाः । उपोमास्वाति सङ्ग्रहीतारः । उप जिनभद्रगणिक्षमाश्रमणं व्याख्यातारः । उप यशोविजयोपाध्यायं नव्यतार्किकाः। तस्मादन्येहीना इत्यर्थः ॥. अत्यन्तसंयोगे सति कालेऽध्वनि च वर्तमानानाम्नो द्वितीया भवति, यथामासं गुडधानाः, कल्याणी, अधीते वा । कोशं पर्वतः, कुटिला नदी, अधीते वा ॥ क्रियाविशेषणवाचिनो नाम्नो द्वितीया भवति, यथा-स्तोकं पचति । सुखं स्थाता ॥ __ अथ तृतीया। हेतौ कर्तरि करणे इत्थंभूतलक्षणे च वर्तमानाबाम्नस्तृतीया स्यात्, यथा-धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । जटामिस्तापसः ॥ सहाथै गम्यमाने गौणानाम्नस्तृतीया भवति, यथा-पुत्रेण सहागतः । "एकेनाऽपि सुपुत्रेण, सिंही स्वमिति निर्भरम् । सहैव दशमिः पुरै-भार वहति गर्दनी ॥ ॥"
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy