________________
[श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] ज्ञानज्ञाप्येऽङ्गविकारे, हेतावपि च इष्यते । तादर्थे सम्प्रदाने च, चतुर्थी स्थाच सर्वदा ॥ २ ॥ हेत्वपादानयोः पञ्चमी, षष्ठी तु कर्तृकर्मसम्बन्धे । अधिकरणनिमित्तसत्वे, सप्तमी स्थाच विषयेऽपि ॥ ३ ॥ यदा कर्तरि प्रथमा स्यात्, कर्मणि द्वितीया तदा ।
यदा कर्तरि तृतीया स्यात्, कर्मणि प्रथमा तदा ॥ ४ ॥ प्रथमं तावत् प्रथमा विभक्तिः कस्सिमर्थे भवतीत्याजिज्ञासायां सोदाहरणमुच्यते
अथ प्रथमा । ___ कर्तरि प्रयोगे कर्तरि प्रथमा भवति, यथा-जिनदासो जिनं पूजयति । कर्मणि प्रयोगे तु कर्मणि प्रथमा भवति, यथा-जिनदासेन पूज्यते जिनः। यद्वा, उक्त कारके प्रथमा भवति, यथा-इन्द्रो जिनं नमति; अन्न ति-प्रत्ययेन कर्तुरुक्कत्वात् कर्तुः प्रथमा संजाता । एवम्-इन्द्रेण जिनो नम्यते, अत्रापि ते-प्रत्ययेन कर्मण उक्तत्वात् कर्मतः प्रथमा भवति । एवमन्यत्रापि स्वधिया परिभावनीयम् ॥
अथ द्वितीया। द्वितीयाविभक्तिरनुक्के कर्मणि भवति, यथा-पण्डितो जिनं स्तौति । पण्डितेन जिनः स्तूयत इत्यत्र तु कर्मण उक्तत्वात् द्वितीया न भवति । स्मरणार्थानां दयतेरीशश्च कर्मणि द्वितीया षष्ठी च भवतः । यथा-मातरं मातुर्वा स्मरति । सर्पिषः सर्पिी दयते । लोकानां लोकान्वेष्टे । स्पृहधातोः कर्मणि द्वितीया चतुर्थी च भवतः, यथा-पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥
एवं समयादिशब्दैयोंगे गौणानाम्नो द्वितीया भवति, यथा-समया पर्वतं नदी । निकषा पर्वतं वनम् । हा देवदत्तं वर्धते व्याधिः । धिग् जाल्मम् । अन्तरा निषधं नीलं च विदेहाः । अन्तरेण गन्धमादनं माल्यवन्तं चोत्तराः कुरवः । अन्तरेण धर्म सुखं न भवति । अति वृद्धं कुरून् महद्धलम् ; कुर्वतिक्रमेण वृद्धमित्यर्थः । येन पश्चिमां गतः । तेन पश्चिमां नीतः । येन तेन इति अन्ययो, न नु यत्तच्छब्दयोस्तृतीयायां रूपे ॥