________________
१०
[श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ]
प्रमृत्यथैरन्याथैदिक्शब्दैर्बहिरारादितरैश्च युक्ताद् गौणाजान्नः पञ्चमी भवति; यथा-ततः प्रभृतिः; ग्रीष्मादारभ्य । अन्यो भिन्नो वा मैत्रात्। ग्रामात् पूर्वस्यां दिशि वसति; उत्तरो विन्ध्यात् पारियात्रः; पश्चिमो रामाद् युधिष्ठिरः । बहिर् आराद् इतरो वा ग्रामात् ॥ _ आरादथैर्युक्तानाम्नः पञ्चमी विकल्पेन भवति, पक्षे च षष्ठी स्यात् । आराद्दरमन्तिकं च । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा। अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ॥
अथ षष्ठी शेषेऽर्थे षष्ठी भवति । उक्तादन्यः शेषः । कादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धविशेषः शेषस्तत्र षष्ठी भवति; यथा-राज्ञः पुरुषः । उपगोरपत्यम् ।.माषाणामश्रीयात् ॥
रि-रिष्टात्-स्तात्-अस्तात्-अस्-अतस्-आत्-एतत्प्रत्ययान्तैर्युक्ताद् गौणामानः षष्ठी स्यात्; यथा-उपरि, उपरिष्टात्, परस्तात्, पुरस्तात्, पुरः, दक्षिणतः, उत्तराद्वा ग्रामस्य ॥ कृदन्तस्य कर्मणि षष्ठी स्यात् ; यथा-अपां. सृष्टा । गवां दोहः ॥ .
कृदन्तस्य कर्त्तर्यपि षष्ठी भवति; यथा-भवत आसिका ॥ . कृत्यप्रत्ययान्तस्य कर्तरि षष्ठी विकल्पेन भवति, पक्षे तृतीया च; यथा त्वया तव वा कृत्यः कटः । ( ध्यणतव्यानीययक्यपः कृत्याः )
तृन्प्रत्ययान्तस्य, उकारान्तप्रत्ययान्तस्य, अव्ययस्य, कसुप्रत्ययान्तस्य, कानप्रत्ययान्तस्य, शानप्रत्ययान्तस्य, आनश्प्रत्ययान्तस्य, अतृश्प्रत्ययान्तस्य, शतृप्रत्ययान्तस्य, डिप्रत्ययान्तस्य, णकच्प्रत्ययान्तस्य, खलर्थकप्रत्ययान्तस्य च कर्मणि कर्तरि च षष्ठी न स्यात् । यथा-तृन्, वदिता जनापवादान् । उदन्तः, कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्त्वम् । अव्ययम् , कटं कृत्वा; ओदनं भोक्तुं व्रजति । कसुः, तत्त्वं विद्वान् ; ओदनं पेचिवान् । कानः, कटं चक्राणः । शानः, मलयं पव: