SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] हितशब्देन सुखशब्देन च युक्ताद् गौणानाम्नश्चतुर्थी वा भवति, चतुर्थ्यभावपक्षे च षष्ठी । यथा-आतुराय आतुरस्य वा हितं सुखं वा । जिनदासाय जिनदासस्य वा हितं सुखं वा ॥ गतिः पादविहरणम् , तस्या अनाप्ते आप्ये वर्तमानाद् गौणाबाम्नश्चतुर्थी विकल्पेन भवति, पक्षे द्वितीया च । यथा-ग्राम ग्रामाय वा याति । विप्रनष्टः पन्थानं पथे वा याति ॥ हितार्थक-सुखार्थक-भद्रार्थक-आयुरर्थक-क्षेमार्थक-अर्थार्थक-शब्दैर्युक्ताद् गौणान्नाम्न आशिषि गम्यायां चतुर्थी वा भवति, पक्षे षष्ठी च । यथा-हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुख शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा । आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् कुशल निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा। अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥ शक्तार्थकशब्दैः वषड्-नमः-स्वस्ति-स्वाहा-स्वधा इत्येतैश्च शब्दैर्युक्ताद् गौणान्नाम्नश्चतुर्थी भवति; यथा-शक्तः प्रभुर्वा मल्लो मल्लाय । वषडग्नये । नमोऽहंदयः । स्वस्ति प्रजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः ॥ अथ पञ्चमी अपादानेऽर्थे वर्तमानाद् गौणानाम्नः पञ्चमी भवति; यथा-ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति॥ अवध्यर्थात् 'आङ्' शब्देन युक्ताद्गौणानाम्नः पञ्चमी भवति । अवधिर्मर्यादाऽभिविधिश्च । तेन विना मर्यादा, तेन सहामिविधिः । यथा-आ पाटलीपुत्राद् वृष्टो मेघः । आ कुमारेभ्यो यशो गतं गौतमस्य ॥ ___ अप्रयुज्यमानस्य यबन्तस्य कर्मवाचिन आधारवाचिनश्च गौणानाम्नः पञ्चमी स्यात् । यथा-प्रासादात्, आसनाद्वा प्रेक्षते । पर्वतो वह्विमान् धूमात् । नास्तीह बटोऽनुपलब्धेः । सर्वमनेकान्तात्मकं सत्त्वान्यथानुपपत्तेः ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy