________________
[श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ]
मानः । आनश, ओदनं पचमानः; चैत्रेण पच्यमानः। अतृश, अधीयंस्तत्त्वार्थम् । शत, कटं कुर्वन् । डि, परीषहान् सासहिः। णकच , कटं कारको व्रजति । खलर्थः, ईषत्करः कटो भवता। सुज्ञानं तत्त्वं त्वया । शेष विवक्षायांतु षष्ठी भवत्येव ॥
अथ सप्तमी ___ अधिकरणेऽर्थे वर्तमानाद् गौणानाम्नः सप्तमी भवति । यथा-दिवि देवाः । कटे आस्ते । तिलेषु तैलम् । गङ्गायां घोषः । युद्धे सन्नह्यते । अगुल्यो करिशतम् । अधिकरणस्य षड्विधत्वादुदाहरणषट्कम् ॥
स्वामिन्-ईश्वर-अधिपति-दायाद-साक्षिन्-प्रतिभू-प्रसूत इत्येतैर्युक्ताद् गौणान्नाम्नः सप्तमी विकल्पेन भवति, सप्तम्यभावे षष्ठी भवति; यथा-गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ॥ . ज्याप्येन [कर्मणा] युक्ते हेतौ वर्तमानाद् गौणानाम्नः सप्तमी स्यात्; यथा"चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुन्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥ १॥"
स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्ताद् गौणानाम्नः सप्तमी स्यात् , यथा-अधि मगधेषु श्रेणिकः । अधि श्रेणिके मगधाः ॥
यस्य भावेनान्यो भावो लक्ष्यते तद्वाचिनो गौणानाम्नः सप्तमी स्यात् । भावः क्रिया । यथा-देवार्चनायां क्रियमाणायां गतः, कृतायामागतः । अत्र कालत: प्रसिद्धेन देवार्चनेनाप्रसिद्धं गमनं लक्ष्यते । गोषु दुह्यमानासु गतः ॥
गम्यमानेनापि भावेन भावलक्षणे सप्तमी भवति; यथा-आनेषु कलायमात्रेषु गतः, पक्वेषु आगतः । अत्र जातेषु इति गम्यते ॥
अथ सम्बोधनम् प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुममिमुखीकरणमामन्त्रणम्, येन शब्देन आत्मा निरवधानः सावधानः क्रियते तदामन्त्रणमिति स्पष्टार्थः; तद्विषय आमन्त्र्यः । तवृत्तेर्नाम्नः प्रथमा स्यात् । यथा-हे देव ॥