________________
[श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ]
। अथ विविधा विभक्तयः। कुतश्चिदवधेर्विवक्षितस्याध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याऽध्ववाचिशब्दस्याध्वन एवाऽन्तवाचिना सह सामानाधिकरण्यं वा भवति । तद्विभक्तिस्तस्माद्भवतीत्यर्थः । कदा? गते गम्येऽप्रयुज्यमाने सति । यथागवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्पु वा योजनेषु । एवं लोकमध्याल्लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति, सप्तसु रज्जुषु वा ॥ ___ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौणानाम्नोऽनादरे गम्यमाने षष्ठी विकल्पेन भवति, पक्षे च सप्तमी स्यात् । यथा-रुदतो लोकस्य रुदति लोके वा प्रावाजीत् । क्रोशतो बन्धुवर्गस्य कोशति बन्धुवर्गे वा प्राब्राजीत् । रुदन्तं क्रोशन्तं वाऽनादृत्य प्रव्रज्यां दीक्षां गृहीतवानित्यर्थः ॥
जातिगुणक्रियादिमिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् गम्यमाने गौणानाम्नः षष्ठी सप्तमी च भवत: । कदा ? 'अविभागे' निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथंचिदैक्ये शब्दाद्गम्यमाने। यथाक्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षीरा । धावन्तो यातां यात्सु वा शीघ्रतमाः । युधिष्ठिरः शूरतमः कुरूणां कुरुषु वा ॥ ___ अल्पीयोवाचिना अधिकशब्देन योगे भूयोवाचिनो गौणानाम्नः सप्तमीपञ्चम्यौ भवतः । यथा-अधिको द्रोणः खार्या खार्या वा ॥ ___ भूयोवाचिनाऽधिकशब्देन युक्तादल्पीयोवाचकाद् गौणानाम्नस्तृतीया भवति, यथा-अधिका खारी द्रोणेन ॥
पृथग्नानाशब्दाभ्यां युक्ताद् गौणानाम्नः पञ्चमी तृतीया च भवतः, यथापृथग्मैत्रात् मैत्रेण वा । नाना चैत्रात् चैत्रेण वा ॥ . ऋतेशब्देन युक्ताद् गौणानाम्नो द्वितीया पञ्चमी च भवति । 'ऋते' इति वर्जनार्थकमव्ययम् । ऋते धर्म धर्माद्वा कुतः सुखम् ? । नाङ्गं विक्रियते रोग रोगाद्वा ऋते ॥