SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ [श्रीस्याद्यन्तरत्नाकरे विभक्तिनिरूपणम् ] १३ विनाशब्देन युक्ताद् गौणान्नाम्नो द्वितीया पञ्चमी तृतीया च भवन्ति यथा - विना वातं वातात् वातेन वा ॥ तुल्यार्थैर्युक्ताद् गौणान्नाम्नस्तृतीयाषष्ठ्यौ स्याताम्; यथा - मात्रा मातुवी तुल्यः समो बा ॥ हेत्वर्थैः शब्दैर्युक्तात् प्रत्यासत्तेस्तैरेव समानाधिकरणाद् गौणान्नाम्नस्तृतीयाचतुर्थी - पञ्चमी - षष्ठी - सप्तम्यो भवन्ति । हेतुर्निमित्तं कारणमिति पर्यायाः । यथा-धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥ हेत्वर्थैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेगौणान्नाम्नः सर्वा विभक्तयो भवन्ति । यथा – को हेतुः कं हेतुम, केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः कस्य हेतोः, कस्मिन् हेतौ वा याति मैत्रः ॥ - , , असत्त्ववाचिनो दूरार्थादन्तिकार्थाच्च टा - ङसि - डि-अम् इत्येते प्रत्ययाः स्युः । यथा-दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृष्टेनेत्यादि । अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामाद्वा वसति । एवमभ्यासेनेत्यादि ॥ जातेरभिधानेऽएकोऽर्थो जातिलक्षणः संख्यावाचिविशेषणरहितो बहुवद्विकल्पेन भवति । यथा-सम्पन्ना यवाः, सम्पन्नो यवः ॥ गौरवाहेऽर्थे वर्त्तमानस्य शब्दस्य द्वावेकश्चार्थो बहुवद्विकल्पेन भवति । यथा-युवां गुरू, यूयं गुरवः । एष मे पिता, एते मे पितरः ॥ विशेषार्थिना तु कारकप्रकरणमवलोकनीयम् ॥ नाम त्रिविधं - पुंल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्गभेदात् । अयमियमिदमिति यतस्तत् पुमान् स्त्री नपुंसकमिति लिङ्गम् । तच्चार्थधर्म इत्येके शब्दधर्म इत्यन्ये । उभयथाऽपि न दोषः । प्रत्येकं नाम केवलस्वर - स्वरान्त - व्यञ्जनान्तभेदात्ः त्रिविधम् । तत्रादौ केवलस्वरप्रकरणं निरूप्यते ॥
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy