Book Title: Syadyanta Ratnakar
Author(s): Dakshvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 7
________________ ४ [श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणं प्रस्तुतग्रन्थावश्यकता च] [शार्दूलविक्रीडितवृत्तम् ] न्यायव्याकराणागमेषु ललिते काव्ये तथा छन्दसि, साहित्यप्रभृतौ प्रबन्धगगने यद्धीकरा विस्तृताः। येनाकारि च भूरिशास्त्ररचना विद्वजनानां मुदे, वन्दे तं प्रगुणालयं गुरुवरं लावण्यसूरीश्वरम् ॥ १२ ॥ [शिखरिणीवृत्तम् ] - प्रसादाद्यस्याऽहं जिनचरितदीक्षामधिगतो, जडोऽप्यात्मा मेऽयं विमलतरशिक्षावितरणैः । इयभूमि नीतोऽतुलकरुणया येन गुरुणा, स सूरिविण्यो मम मनसि नित्यं निवसतु ॥१३॥ [शार्दूलविक्रीडितवृत्तम् ] तस्य व्याकरणे गतस्य पदवीं वाचस्पतीति स्फुटां, शास्त्रालौ च विशारदः कविकुले रत्नेति रम्यं पदम् । श्रीलावण्यमुनीश्वरस्य सुगुरोः सेवाप्तविद्यालवो, बालार्थ विदधामि दक्षविजयः स्याद्यन्तरत्नाकरम् ॥ १४ ॥ ___ समासादिते हि तीर्थकरदेवोपवर्णितदौर्लभ्ये मनुष्यत्वे फलवता भाव्यम् । फलं च मानवजन्मनो मुक्तेरधिगमः । स च हेयेषु निवृत्त्या उपादेयेषु प्रवृत्त्या। निरुक्ते निवृत्तिप्रवृत्ती तु तदुपदेशाधीने । उपदेशश्च वचनप्रयोगाधीनः । वचनप्रयोगश्च पदाधीनः "न केवला प्रकृतिः प्रयोक्तन्या, नापि केवलः प्रत्ययः" इति वचनात्। पदं च विभक्त्यन्तम् । विभक्तिस्तु द्विधा, स्यादिरूपा त्यादिरूपा चेति । तत्र आद्या नाम्न आयाति, इतरा. . धातोः । तत्र नाम्नो या विभक्तिरायाति तदन्तस्य

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 228