Book Title: Syadwad Manjari Author(s): Motilal Ladhaji, Prashamrativijay Publisher: Naginbhai Paushadhshala View full book textPage 9
________________ यदोद्धृतं तदा तत्तन्मतस्थानां प्राचीनपण्डितानां ग्रन्थनिर्देशः कृतः । तथापि बहुषु स्थलेषु विस्तरभयात्केवलमेतदमुकग्रन्थेषु द्रष्टव्यमिति ग्रन्थानां नामनिर्देशः कृतः । ते च ग्रन्था अस्माभिः परिशिष्टे दर्शिताः । श्रीमल्लिषेणसूरीणां वश्यवाक्त्वं विशेषतः प्रशस्यं यतस्तत्र तत्र व्याख्यायां तैः स्वविषयः सारल्यतया बहुभिर्दृष्टान्तैः सर्वजनावर्जकैर्लोकिकैर्न्यायैश्च प्रतिपादितः । किं चार्थजिज्ञासूनां सौकर्याय प्रतिश्लोकं संक्षिप्तार्थो विस्तरार्थश्च प्रतिपादितः । यदा पूर्वग्रन्थानामुपयोगस्तैरभिलषितस्तदा प्रायस्तैरेवाक्षरैस्तत्संग्रहः कृतः । ३. प्रकाशनपरिचयः । आर्हतमतप्रभाकरपरिचयद्वारा यथा प्रतिश्रुतं तदनुसारमेतस्याः स्याद्वादमञ्जर्याः प्रकाशनं यावच्छक्ति कृतम् । तथाच-अत्र प्रथममन्ययोगव्यवच्छेदिकाया अन्तरङ्गबहिरङ्गपरीक्षणं प्राकाशि अथ च स्याद्वादमञ्जर्या पूर्वपक्षत्वेन गृहीतानि न्यायादिमतानि सविस्तरं ग्रन्थनामनिर्देशपुरःसरं परिशिष्टे दर्शितानि । तथाधोभागेऽर्थदर्शिकाः, तत्तन्न्यायविवरणात्मिकाः ग्रन्थस्थलनिर्देशात्मिकाश्च टिप्पन्यो मुद्रिता येन ग्रन्थार्थजिज्ञासूनां विशेषतः सौकर्यं स्यात् । तथा टिप्पन्यां स्याद्वादमञ्जरीगृहीतानामाचाराङ्गादिग्रन्थानां पारिभाषिकशब्दानां च परिचयो दर्शितः । अत्र नव परिशिष्टानि सन्ति । तथाहि १. पूर्वपक्षाः (विशेषतः श्रीमल्लिषेणसूरिनिर्दिष्टग्रन्थस्थाः ) २. उपलब्धवाक्यानि । 7 ग्रन्थमुद्रणसमाप्तिपर्यन्तं यान्युपलब्धानि . तान्यपि उपलब्धोपलब्धसमपरिशिष्टयोर्द शितानि । ३. अनुपब्धवाक्यानि । ४. उपलब्धसमानि । ५. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थाः । ६. स्याद्वादमञ्जरीनिर्दिष्टा ग्रन्थकृतः । ७. स्याद्वादमञ्जरीनिर्दिष्टा न्यायाः । ८. टिप्पन्यां पूर्वपक्षप्रदर्शने चोपयोजिता ग्रन्थाः । ९. मुद्रणार्थमुपयोजितानि पुस्तकानि । स्याद्वादमञ्जरीPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 306