Book Title: Syadwad Manjari Author(s): Motilal Ladhaji, Prashamrativijay Publisher: Naginbhai Paushadhshala View full book textPage 7
________________ sts प्यमन्दानन्दोऽनुभूयते । तत्रमध्येमध्येप्रतिवाद्युपहासोऽपि तथैव सरण्या प्रतिपादितोयथा नारुन्तुदो भवति । किंच वासनाखण्डनप्रसंगे १९ तमे श्लोके तटादर्शिशकुन्तपोतन्यायात्' इत्यादिप्रतिपादनंतुविशेषतो हृद्यम् । एतस्याः प्रणेतृणांकलिकालसर्वज्ञ श्री हेमचन्द्राचार्याणां चरितंप्रबन्धाःप्रबन्धप्रणयनयोग्यतादिकंचास्माभिः 'आर्हतमतप्रभाकरस्य' प्रथमकिरणभूतायां प्रमाणमीमांसायां सविस्तरमुपपादितम् । तेनात्र पुनरुक्तिभयान्न लिख्यते । दिदृक्षुभिस्तत एवालोचनीयम् । २. स्याद्वादमञ्जरी । अयमद्वितीयो ग्रन्थः ' अन्ययोगव्यवच्छेदिकाया' व्याख्यारूपः । इयं व्याख्या मूलग्रन्थानन्तरं संवत्सरशतद्वये समभूत् । यतः श्रीहेमचन्द्राचार्याणां सूरिपदप्राप्तिसमयः शालिवाहनशकः १०३१, श्रीमल्लिषेणानां ग्रन्थसमाप्तिसमयः शालिवाहनशकः १२१४ । एतादृशग्रन्थस्य व्याख्या न साधारणपाण्डित्यसुलभा यतोऽत्र बहूनां तत्तच्छास्त्रसमयानां खण्डनम् । तदर्थमपेक्ष्यते व्याख्यातुः सकलशास्त्रीयपाण्डित्यं परमतसहिष्णुतया प्रतिपादनशैली च । तदुभयमप्यत्र स्याद्वादमञ्जरीव्याख्यायां वरीवर्ति । यतः सर्वपरसमयादिप्रतिपादनं यावच्छक्यं याथातथ्येन ग्रन्थनामनिर्देशपुर : सरं प्रत्यपादि व्याख्यायामस्याम् । एतस्याः स्याद्वादमञ्जर्याः प्रणेतृणां श्रीमल्लिषेणसूरीणां जन्मकालादिवृत्तं न ग्रन्थकृदन्तरवदनुमेयमिति महदेव सौभाग्यम् । यत एभिरेव सूरिभिः स्वयमेव ग्रन्थान्ते प्रशस्तिकायां न्यबन्धि तत्सर्वम् । तथाहि नागेन्द्रगच्छगोविन्दवक्षोऽलङ्कारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ।। श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरविमित (१२१४) शाकाब्दे दीपमहसि शनी ।। श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ।। 6 ॐ ॐ ॐ ॐ स्याद्वादमञ्जरीPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 306