Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 5
________________ प्रास्ताविकं किञ्चित् । १. अन्ययोगव्यवच्छेदद्वात्रिंशिका । अयि श्रेष्ठा विद्वांसः ! आर्हतमतप्रभाकरसंस्थायाः परिचये प्रतिश्रुतानुसारं तृतीयोऽयं किरणः ‘स्याद्वादमञ्जरी' इत्याख्यः प्रकाश्य श्रीमत्सविधे प्रेष्यते । एतस्याः स्याद्वादमञ्जर्या व्याख्याया मूलम् ‘अन्ययोगव्यवच्छेदद्वात्रिंशिका । कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितेषु प्रबन्धेषु अयोगव्यवच्छेदिका अन्ययोगव्यवच्छेदिका इति द्वात्रिंशिकाद्वयं वरीवर्ति। तत्रायोगव्यवच्छेदिकाया-मार्हतमतं सविस्तरं प्रतिपादितम् । अन्ययोगव्यवच्छेदिकायां तु मतान्तरखण्डनपूर्वकं तत् प्रतिपादितम् । - एतस्या अन्ययोगव्यवच्छेदिकायाः स्याद्वादमञ्जरीं श्रीमल्लिषेणसूरिविरचितां विरहय्य नान्या टीका तत्प्राक्कालीना तदुत्तरकालीना वोपलभ्यते । स्याद्वादमञ्जर्याः प्रणेतृभिरयोगव्यवच्छेदिका न व्याख्याता सुखोन्नेयत्वात् । तथाच 'तत्र च प्रथमद्वात्रिंशिकायाः सुखोनेयत्वात् तद्-व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिबीजप्रबोधविधिविधीयते'। अन्ययोगव्यवच्छेदद्वात्रिंशिकाया विषयास्तु श्लोकक्रमेण सन्ति । श्लो. १ मङ्गलाचरणम्, स्तुतिप्रतिज्ञा च । ' श्लो. २ कुतीNस्तत्त्वविचारः कर्तव्य इति कथनम् । श्लो. ४. औलूक्य (वैशेषिक) मते योग (नैयायिक) मते च यः सामान्यविशेष वादस्तत्खण्डनम् । श्लो. ५ एकान्तनित्यानित्यपक्षयोर्दूषणम् । श्लो. ६ . ईश्वरैकत्वादिगुणानां जगत्कर्तृत्वस्य च खण्डनम् । श्लो. ७ धर्मधर्मिभेदस्य समवायस्य च खण्डनम् । nandinik स्याद्वादमञ्जरी ई A

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 306