Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala
View full book text
________________
अस्याद्वादसंकीर्तनम् ।
प्रशमरतिविजयः जगदिदमनन्तवस्तुकम् । वस्तुमात्रमप्यनन्तधर्मकम् । सर्वज्ञा एव तत्प्रमातारः । तेषामनन्तज्ञानशक्तिमत्त्वाद् । छद्मस्थानामनन्तवस्तु-तद्धर्माणां परिपूर्णज्ञानं नास्ति । तेषां ज्ञानशक्तेः तत्सहायकसामग्र्याश्च सीमितत्वाद् । तथापि छद्मस्थानां ज्ञानमयथार्थेमेवेति न मन्तव्यम् । किञ्च सर्वज्ञानां वचनमेव प्रमाणं, छद्मस्थानां वचनं न प्रमाणमित्यपि नास्ति । शास्त्रकृद्भिः या ज्ञानव्यवस्था निदर्शिता तदभ्यासेन छद्मस्थांनां ज्ञानं वचनं च मर्यादितमपि प्रमाणरूपं भवति । ___ इह खलु जिनदर्शने ज्ञानं द्वधा । प्रत्यक्ष परोक्षञ्च । तत्र सांव्यावहारिकं पारमार्थिकञ्चेति द्विभेदं प्रत्यक्षम् । सांव्यावहारिकं द्विविधम्, इन्द्रियनिबन्धनम्, अनिन्द्रियनिबन्धनञ्च । उभयमपि बाह्येन्द्रियादिसापेक्षम्, अवग्रहादिक्रमानुगतञ्च ।
पारमार्थिकं सकलं विकलञ्चेति विभेदम् । उभयमप्यात्ममात्रापेक्षम् । अवधि: मनःपर्यायश्च विकलम् । केवलज्ञानं सकलम् । . . परोक्षं पञ्चभेदम् । स्मरणम्, प्रत्यभिज्ञा, तर्कः, अनुमानम्, आगमश्चेति । स्मरणादिचतुष्टयं स्वतंत्रम् । तत्सिद्धिश्च स्याद्वाद-रत्नाकरादिषु ।।
- आगमप्रमाणं पञ्चममर्थसंवेदनरूपम् । आप्तवचनाद् अस्य समुद्भवः । तेनाऽऽप्तवचनमागमः । स आप्तो द्विधा । पित्रादिलौकिक: प्रथमः । सर्वज्ञगणधरादयो लोकोत्तरा द्वितीयाः । तैरुञ्चरितं सावधानं वंचनमागमप्रमाणम् ।
वचनस्य स्वार्थाभिधाने सप्तधा वाक्प्रयोगः । स एव सप्तभङ्गी । अत्र प्रत्येकभङ्गे स्यात्पदमनिवार्यमिति सप्तभङ्गी एव स्याद्वादः । अयं स्याद्वादः सर्वज्ञत्वविकलानामपि ज्ञानं यथार्थतया प्रमाणयति ।
छद्मस्थो हि प्रमाता वस्तुन एकतरमेव धर्मं जानाति । इतरधर्मसापेक्षतया प्रकृतधर्मप्रतिपत्तिः स्याद्वादेन साध्या । स्यात्कारविशिष्टो धर्मविशेषविषयो निश्चितो बोध एतैः सप्तप्रकारैः भवति । (10 m
nitisati स्याद्वादमञ्जरी
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 306