Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji, Prashamrativijay
Publisher: Naginbhai Paushadhshala

View full book text
Previous | Next

Page 10
________________ T बौद्धग्रन्था यत्र लब्धास्तत्र तन्निर्देशः कृतः । तथापि मतान्तरापेक्षया बौद्धग्रन्था दुर्लभा इत्यस्माभिरनुभूतम् । मागधीभाषाविषये सर्वत्र संस्कृतच्छाया निर्दिष्टा । विशेषस्थले टीकादिकमपि यथायथं प्रादर्शि । एतन्मुद्रणेऽस्माभिः अष्ट पुस्तकानि संगृहीतानि यद्विषयको निर्देशो नवमपरिशिष्टे । तत्र 'अ' पुस्तकस्थः पाठो मुद्रणार्थमादृतः । यतस्तदेव पुस्तकमतीव प्राचीनं शुद्धं च । पुस्तकान्तरात् शुद्धा अर्थवैशिष्ट्यबोधका एव पाठाः संगृहीता न सर्वे । एवंरीत्या संमुद्र्य विदुषां पुरतो निधीयते पुस्तकमेतत् शासनदेवकृपया । संप्रार्थ्यन्ते च सुधियो यदालोच्य सर्वत्रुट्यो ज्ञाप्यास्तैर्येन संस्करणान्तरे प्रयतिष्ये तज्ज्ञापनानुसारम् । प्रमोदावहं स्वकर्तव्यं निवेद्यते यदन्तरा समापयितुं न पारयामि प्रास्ताविकम् । तदेतन्मान्यानां पं. व्याकरणाचार्यवेदान्तवागीशपाठकोपनामश्रीधरशास्त्रिणामनुग्रहभरनिर्देशो नाम । महाभागैः सहृदयैरेभिः कार्यकालव्ययमविगणय्य शास्त्रीयग्रन्थबद्धादरेणोपकृतोऽहं सर्वथा प्रकाशनेऽस्य ग्रन्थस्य । यदि न स्यात्साहाय्यमेतेषां तर्हि प्रकाशनकार्यं विशदार्थबोधक टिप्पनीयुतं प्रास्ताविकं सर्वाङ्गीणं नैव मया प्रकाशयितुं शक्येतेति निर्दिशन्नह मल्पांशेनापि आत्मानमत्युक्तिभाजनं करोमि । किं च ' ओसवालवणिग्वंशज श्रेष्ठ शान्तिलाल भगवानजी' (कार्याधिपो जैन प्रिंटिंग वर्क्स) एतेषां महाशयानामनुग्रहभरोद्वहनं स्वकर्तव्यं मन्ये । अतः परं सर्वान् विदुषो विज्ञापयामि यदत्र समुपलभ्यामानान् दोषान्विज्ञाप्यानुग्राह्योऽयं जन इति संप्रार्थकः । पुण्यपत्तनम्. आश्विनाष्टाह्निकम् वीरसंवत् २४५२ विद्वद्वशंवदः मोतीलाल लाधाजी स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ७

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 306