Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 12
________________ ध्यायः १ ] संस्कृतटीका - भाषा टीकासमेतः । (३) 3 ज्ञानं शास्त्रं ज्ञातुमिच्छुः । तथाच शास्त्रज्ञाननिमित्तं तेन तपस्तप्तमिति भावः । किं तच्छास्त्रमित्यतो ज्ञानविशेषणमाह - ज्योतिषामिति । प्रवहवायुस्थानां ग्रहनक्षत्राणां गतिकारणम् । ये गत्यर्थास्ते ज्ञानार्था इति) गतेः संस्थानचलनमानादिज्ञानस्य कारणं प्रतिपादकं ज्योतिःशास्त्रं जिज्ञासुरिति फलितम् । ननु ज्योतिःशास्त्रज्ञानार्थमयमा - यासो न युक्तस्तस्य सर्वविज्ञेयत्वेनादुरूइत्वादित्यत आह- अखिलमिति । समग्र ज्योतिःशास्त्रमित्यर्थः । तथाचर्षीणां मानुषत्वेनैभ्यो मम ज्ञानमखिलं यथार्थ वा न भविष्यतीति दैत्यबुद्ध्या मत्वा निःशेषज्योतिःशास्त्रस्य दुरूहस्य विदिततत्त्वं भगवंतमप्रतारकं सर्वज्ञं महागुरुं सेवयामासेति भावः । ननु तस्यासुरस्य ज्योतिःशास्त्रमवृत्तिर्न युक्ता फलाभावादित्यत आह-वेदांगमिति । वेदस्यांगम् । तथाचांगिनो यत्फलं तदेवांगस्येति मोक्षरूपफलसद्भावादत्र प्रवृत्तिर्युक्तेति भावः । अतएव पुण्यजनकं पुराणन्यायेत्यादिचतुर्दशविद्यांतर्गतत्वात् । नन्विदं वेदांगं कुत इत्यत आह- परममिति । "कालोऽयं भगवान्विष्णुरनन्तः परमेश्वरः । तद्वेत्ता पूज्यते सम्यक्पूज्यः कोऽन्यस्ततो मतः ॥ " इत्युक्तेः कालप्रतिपादकत्वेनोत्कृष्टमतो वेदांगम् । एतेन पुराणादीनां निरास इति भावः । ननु व्याकरणादीनां षण्णां वेदांगत्वादस्मिन्नेव प्रवृत्तिः कथमित्यत आह- अग्र्यमिति । षण्णां वेदाङ्गानां मध्ये श्रेष्ठम् । कुत इत्यत आह- उत्तममिति । मुख्यांगं नेत्रमित्यर्थः। तथाच नेत्ररहितस्याकिञ्चित्करत्वादिदं ज्योतिःशास्त्रं वेदांगेषु श्रेष्ठमिति भावः । ननु तथाप्येतस्य ज्ञानार्थमेतावानाथासो न युक्त इत्यत आह । रहस्यमिति । विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽयताय नमा ब्रूया वीर्यवती तथा स्याम्" इति श्रुत्युक्तेर्गोप्यमित्यर्थः । तथाचास्य शास्त्रस्यादेयत्वेन निश्चितत्वादनेन तत्प्राप्त्यर्थमेतावानप्यायासः कृत इति भावः ॥ २ ॥ ३॥ 66 मा० टी० - सत्ययुग कुछेक ( अंश ) शेष रहते हुए, मयनामक महाअसुर ने परमपुरहस्य वेदों में श्रेष्ठ समस्त ज्योतिषों (ग्रहनक्षत्रों ) की गतिका कारणरूप उत्तम ज्ञानको. प्राप्त करनेके लिये जिज्ञासु हो अतिकठोर तप करके सूर्यकी आराधना कीथी ॥ २ ॥ ३ ॥ ततस्तुष्टोऽको मयायेदं दत्तवानित्याह तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने ॥ ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम् ॥ ४ ॥ स्वयं स्वतः प्रीतः सुखरूपः । यद्वा शोभनोऽयं प्रत्यक्षः प्रीतः सन्तुष्टोऽपि सन् सविता सवितृमण्डलमध्यवर्ती तेनः सुदुश्वरेण तपसाराधनेन तोषितः । अत्यन्तं सन्तुष्टः तस्मै असुराय मयनाम्ने वरार्थिने वरं स्वाभिमतं ज्योतिःशास्त्रमर्थयते ज्ञातुमिच्छति तस्मै Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 262