Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 11
________________ ( २ ) सूर्यसिद्धान्तः [ प्रथमोऽ च गुणात्मकस्य व्यक्तरूपत्वेनायं तदभावादव्यक्तरूप इति भावः । नन्वेवमस्यारूपित्वमेव फलितं नाव्यक्तरूपित्वमित्यत आह । गुणात्मन इति । गुणा नित्यज्ञानसुखादय आत्मगुणा आत्मस्वरूपं यस्य तस्मै नित्यज्ञानसुखाय । “सत्यं ज्ञानमनन्तं ब्रह्म ” इति श्रुतेरित्यर्थः तथाचास्य रूपित्वमसिद्धमिति भावः । साक्षान्निर्गुणाय परम्परया गुणात्मने । कथमन्यथा जगत्कर्तृत्वं सम्भवति । “प्रकृतिं स्वामवष्टम्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशः प्रकृतेर्वशात् ॥ " इति भगवदुक्तेरित्यन्ये ॥ १ ॥ भः० टी०-अचिन्त्य ( विचार में न आनेके योग्य), अव्यक्तरूपी, निर्गुण, गुणात्मा समजगदाधारमूर्ति ब्रह्मको प्रणाम है ॥ १ ॥ अथ स्वोक्तस्य स्वकल्पितत्वशङ्कावारणाय तत्संवादोपक्रमं विवक्षुः प्रथमं मयासुरेण तपस्तप्तमिति श्लोकाभ्यामाह अल्पावशिष्टे तु कृते मयनामा महासुरः ॥ रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ॥ २ ॥ वेदाङ्गमय्यमखिलं ज्योतिषां गतिकारणम् ॥ आराधयन्विवस्वन्तं तपस्तेपे सुदुश्वरम् ॥ ३ ॥ मयेति नाम यस्यासौ मयाख्यो महादैत्यः कश्चित् । तपोऽभिमतदेवताप्रीतिकरजपहोमध्यानादिना स्वशरीरादिक्लेश नियमरूपं तेपे कृतवान् । दैत्यानां तपश्चरणं पुराणेषु प्रति'पदं सुप्रसिद्धम् । ननु तत्र तेषां तपश्चरणस्य देवताविशेषमभिमतमुद्दिश्य प्रसिद्धेरनेन कं देवमुद्दिश्य तपस्तप्तमित्यत आह । आराधयन्निति । विवस्वन्तं सवितृमंडलाधिष्ठातारं नारायणं सेवयन् । ननु दैत्यारिमेनं स्वशत्रुं ज्ञात्वाप्ययं कथं स्वाभिमतसिद्ध्यर्थमारराध । नहि स्वशत्रुतः स्वहितसिद्धिरन्यथा शत्रुत्वव्याघात इत्यतस्तपोविशेषणमाहसुदुश्चरमिति । सुतरां दुःखैरत्यन्तक्लेशैश्चरितुं कर्तुं शक्यमित्यर्थः । तथाच भक्तजनैकवत्सलतया तादृशतपश्चरणसुप्रसन्नो दैत्यानामप्यभिमतं पूरयतीति पुराणेषु शतशः `श्रसिद्धम् । अतस्तत्प्रतीत्याराधयन्निति भावः । ननु पुराणेषु दैत्यानां तपश्चरणोक्तिअसं कचिदप्यस्यानु तेस्तत्तपश्चरणं कथं प्रमाणं ज्ञेयमित्यंत आह- अल्पावशिष्ट इति । कृते कृताख्ये युगचरणे तुकारात्सन्ध्या सन्ध्यांशसहित इत्यर्थः । तेन सन्ध्यासाध्या'शसभेत केवलकृतरूपाभि मतकृतचरणेन ग्रन्थान्तरोक्त केवलकृत इति पर्यवसन्नम् । अल्पकालेन सन्ध्यांशान्तर्गतेन शेषिते । समाप्त्यासन्नाभिमतकृतयुगे मयासुरेण तपस्तप्त मित्यर्थः । तथाच साम्प्रतमेव मयासुरण तपस्तप्तमिति सर्वज नावगत प्रत्यक्षप्रमाणसिद्धं नामांतरप्रामाण्यमपेक्षतइति भावः । ननु मयासुरणं किमर्थं तपस्तप्तं नहि प्रयोजनअनुद्दिश्य मन्दोऽपि प्रवर्तत इत्यतो मयासुरविशेषणशाह - जिज्ञासुरिति । ज्ञायतेऽनेनोत मये नाम इते पठान्तरम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 262