Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 9
________________ भवनं प्राप्नुवन्ति, प्रत्युत मोहसंस्कारगहने मायाजाल - परिकरिते भववने समटन्ति नितराम् । अतो रथस्य गतिः कस्यां दिशि करणीयैतद्विनिर्णेतुं रथवाहकस्य समीक्षणं सम्यक् कार्यम् । वर्त्तमाने नेहसि रथवाहकपदे अशुभसंस्कारप्रगुणितमनसः बहुलतया नियुक्तिर्दृश्यते, तेन च पाण्डित्यं नैपुण्यं समधिगत्य लोकसंज्ञाविवशीभूताः जनपंक्तेः समाराधनाय जीवनयापनकरणे साफल्यमभिमन्यमानाः संयमं तन्मर्यादां च विप्रकीर्णा जायमानामपि समुपेक्षन्ते । अतो रथवाहकस्पदे ज्ञानि-गुरु- चरणानामाज्ञां निश्रां संस्थाप्याऽध्ययनरथस्य गतिशीलतायां प्रयतनीयम् । एतादृशस्याध्ययनोपयोगिनो रथस्य गतिशीलतायां हेतुभूतं चक्रद्वयस्य सर्वाङ्गसम्पूर्णत्वमावश्यकम् । तच्च व्याकरण- न्यायसंज्ञ चक्रद्वयं विद्वन्मतल्लजै: प्रज्ञप्तमस्ति । तत्रापि न्यायशास्त्रावगाहने बुद्धिप्राचुर्यस्योपयोगित्वेऽपि शब्दज्ञान - व्युत्पत्तिप्रभृतिद्वारा व्याकरणज्ञानं परमावश्यकम् । अतः न्यायशास्त्राध्वना दर्शनाटवीं संचिचरिषुभिरपि सुज्ञवर्यैः व्याकरणशास्त्राध्ययनाय बद्धकक्षेर्भवितव्यम् । व्याकरणशास्त्रेषु च श्रीसिद्धहेमशब्दानुशासनसंज्ञमेतद्धि व्याकरणं सुलभशैल्याऽष्टाध्यायी प्रक्रियाक्रमयथाशक्य-समन्वयात्मक-सदूह्यसूत्ररचनाशैली - अर्थाधिकारशैली -प्रयोगसुलभतादिहेतुव्रातेन मूर्धन्यभावं बिभर्त्ति ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 600