Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 03
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 8
________________ सम्पादकीयम् ॥ श्री वर्धमानस्वामिने नमः॥ परमोच्चकोटिक-सुविशुद्धात्मावस्थासम्पादनायोद्यतचेतस्कानां हितकामिनां मुमुक्षणां जीवनपथि दिव्योद्योतप्रभां विस्तारयत्सु आगमेषु समुपवर्णितं सामाचारीबद्ध-सुसंयमि. जीवनं सजीवतां सुसंयमिनामात्महितसाधनाये सज्ज्ञानिनिश्रया तत्त्वदृष्टिपरिकर्मणमावश्यकम् । तत्परिकर्मणश्च मोहनीयक्षयोपशमसहकृतज्ञानावरणीयविलयेन भवति, विना मोहक्षयोपशमञ्च ज्ञानावरणविलयः तत्त्वदृष्टि नाविर्भावयेदतः मोहनीयक्षयोपशमाय सर्वथा प्रगुणीभवितव्यं सुसाधुभिरावश्यकमेव । तदर्थं च स्वच्छन्दवादनिरोधः समावश्यकः । मनोनिग्रहमन्तरेण च स्वाच्छन्द्यं न प्रतिरुध्येत । अतो मनोनिग्रहसम्पादनाय नितरां स्वाध्याय-प्रवृत्तिरावश्यिकी, मनोनिग्रहार्थं स्वाध्यायश्च मोहस्य विशिष्टक्षयक्षयोपशमवतां करुणापूर्णादन्तरात्मतः समुद्भूतसाह जिक-वाणीप्रवाहाविर्भूतप्रन्थराशेरावश्यकः । एतावता ग्रन्थराशेरान्तरहार्दसमधिगतिपूर्व स्वाध्यायपञ्चकं चरितार्थयितुं भाषाज्ञानं विशदं परिपूर्णमत्यावश्यकम्। तच्च व्याकरण-न्यायाख्य-चक्रद्वयपरिकरितेऽध्ययनरथे समुपवेशमन्तरा न सुचारु भावि । एतस्मिश्चाध्ययनरथे रथवाहक (सारथि) प्रागुण्यं वना ज्ञानेप्सवः समुपविष्टा अपि न हि सम्यग्ज्ञान

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 600