________________
सम्पादकीयम् ॥ श्री वर्धमानस्वामिने नमः॥ परमोच्चकोटिक-सुविशुद्धात्मावस्थासम्पादनायोद्यतचेतस्कानां हितकामिनां मुमुक्षणां जीवनपथि दिव्योद्योतप्रभां विस्तारयत्सु आगमेषु समुपवर्णितं सामाचारीबद्ध-सुसंयमि. जीवनं सजीवतां सुसंयमिनामात्महितसाधनाये सज्ज्ञानिनिश्रया तत्त्वदृष्टिपरिकर्मणमावश्यकम् ।
तत्परिकर्मणश्च मोहनीयक्षयोपशमसहकृतज्ञानावरणीयविलयेन भवति, विना मोहक्षयोपशमञ्च ज्ञानावरणविलयः तत्त्वदृष्टि नाविर्भावयेदतः मोहनीयक्षयोपशमाय सर्वथा प्रगुणीभवितव्यं सुसाधुभिरावश्यकमेव ।
तदर्थं च स्वच्छन्दवादनिरोधः समावश्यकः । मनोनिग्रहमन्तरेण च स्वाच्छन्द्यं न प्रतिरुध्येत ।
अतो मनोनिग्रहसम्पादनाय नितरां स्वाध्याय-प्रवृत्तिरावश्यिकी, मनोनिग्रहार्थं स्वाध्यायश्च मोहस्य विशिष्टक्षयक्षयोपशमवतां करुणापूर्णादन्तरात्मतः समुद्भूतसाह जिक-वाणीप्रवाहाविर्भूतप्रन्थराशेरावश्यकः ।
एतावता ग्रन्थराशेरान्तरहार्दसमधिगतिपूर्व स्वाध्यायपञ्चकं चरितार्थयितुं भाषाज्ञानं विशदं परिपूर्णमत्यावश्यकम्।
तच्च व्याकरण-न्यायाख्य-चक्रद्वयपरिकरितेऽध्ययनरथे समुपवेशमन्तरा न सुचारु भावि ।
एतस्मिश्चाध्ययनरथे रथवाहक (सारथि) प्रागुण्यं वना ज्ञानेप्सवः समुपविष्टा अपि न हि सम्यग्ज्ञान