________________
भवनं प्राप्नुवन्ति, प्रत्युत मोहसंस्कारगहने मायाजाल - परिकरिते भववने समटन्ति नितराम् ।
अतो रथस्य गतिः कस्यां दिशि करणीयैतद्विनिर्णेतुं रथवाहकस्य समीक्षणं सम्यक् कार्यम् ।
वर्त्तमाने नेहसि रथवाहकपदे अशुभसंस्कारप्रगुणितमनसः बहुलतया नियुक्तिर्दृश्यते, तेन च पाण्डित्यं नैपुण्यं समधिगत्य लोकसंज्ञाविवशीभूताः जनपंक्तेः समाराधनाय जीवनयापनकरणे साफल्यमभिमन्यमानाः संयमं तन्मर्यादां च विप्रकीर्णा जायमानामपि समुपेक्षन्ते ।
अतो रथवाहकस्पदे ज्ञानि-गुरु- चरणानामाज्ञां निश्रां संस्थाप्याऽध्ययनरथस्य गतिशीलतायां प्रयतनीयम् । एतादृशस्याध्ययनोपयोगिनो रथस्य गतिशीलतायां हेतुभूतं चक्रद्वयस्य सर्वाङ्गसम्पूर्णत्वमावश्यकम् ।
तच्च व्याकरण- न्यायसंज्ञ चक्रद्वयं विद्वन्मतल्लजै: प्रज्ञप्तमस्ति ।
तत्रापि न्यायशास्त्रावगाहने बुद्धिप्राचुर्यस्योपयोगित्वेऽपि शब्दज्ञान - व्युत्पत्तिप्रभृतिद्वारा व्याकरणज्ञानं परमावश्यकम् ।
अतः न्यायशास्त्राध्वना दर्शनाटवीं संचिचरिषुभिरपि सुज्ञवर्यैः व्याकरणशास्त्राध्ययनाय बद्धकक्षेर्भवितव्यम् ।
व्याकरणशास्त्रेषु च श्रीसिद्धहेमशब्दानुशासनसंज्ञमेतद्धि व्याकरणं सुलभशैल्याऽष्टाध्यायी प्रक्रियाक्रमयथाशक्य-समन्वयात्मक-सदूह्यसूत्ररचनाशैली - अर्थाधिकारशैली -प्रयोगसुलभतादिहेतुव्रातेन मूर्धन्यभावं बिभर्त्ति ।