________________
एतस्य च पठन-पाठनादिसमुद्योगः पाश्चात्यशताब्दीतः समुज्जम्भमाणः सुतरां प्रतिभाति ।
अध्ययनोपयोगिनो ह्यस्य शब्दानुशासनस्य बहुविध. पुस्तकेषु सत्स्वपि प्राथमिकमेव व्याकरणं घोषयतां बालाभ्यासिनां घोषणसौकर्याय पदच्छेदादिविशिष्टमुद्रणशैलियुक्तं हि पुस्तकं प्राय इदानी न समुपलभ्यते ।
तादृशेन पुस्तकेन विना नवाभ्यासका बाला हिं पिपठिषवः सन्तोऽपि अध्ययनायोद्विजमाना दरीदृश्यन्ते । ___ अनेन च शुभाशयेनैतस्य व्यवस्थितं सुन्दरं विशिष्टशैलिसनाथं मुद्रणमावश्यकमभिमत्य विभागत्रयेणास्य मुद्रणं समारब्धमासीत् ।
__ तृतीयश्चायं विभागो बयां विघ्नपरम्परायां सत्यामपि देव-गुरु-प्रसत्तिवशतः समुन्मुद्रित उपदीक्रियते व्याकरणाध्ययन-स्पृहावतां विद्वज्जनानां करकुशेशययोः ।
छाास्थ्यप्रयुक्त-सीसकाक्षरसंयोगजन्य-दृष्टिदोषजा. दिक्षतीनां हेतोः चतुर्विधश्रीसंघसमक्षं मिथ्यादुष्कृतदानपूर्व विरम्यते ॥ इति शम् ॥ जैन मरचंट वी. नि. सं. २५०७ सम्पादकः सोसायटी वि. सं. २०३७ पू. उपा. श्री धर्मअहमदाबाद-७ मार्ग. कृष्ण २ गुरौ सागरजी विनेयाणुः
अभयसागरः