Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 218
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ २०९ [राजन्वती पृथ्वी] शोभनो राजा यस्यां पृथ्व्यां सा = राजन्वती पृथ्वी । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप० । अनेन राजन्वत् निपातः । [राजन्वत्यः प्रजाः] शोभनो राजा यासां प्रजानां ताः = राजन्वत्यः प्रजाः । तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२०४।२) डी । अनेन राजन्वत् निपातः ।। छ ।। नोादिभ्यः ।।२।१९९।। [नोादिभ्यः] न प्रथमा सि । ऊर्मिशब्द आदिर्येषां ते = ऊर्ध्यादयस्तेभ्यः । [ऊर्मिमान] ऊर्मयो विद्यन्ते यत्राऽसौ । [दल्मिमान्] दल्मिर्विद्यते यस्य । [कुञ्चामान्] क्रुञ्चा अत्राऽस्ति । [द्राक्षामान] द्राक्षा अत्राऽस्ति । सर्वत्र 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । एवमग्रेऽपि । [ज्योतिष्मती] ज्योतिर्विद्यते यस्यां सा । 'तदस्या०' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डी । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० । [महिष्मान् महिष । महिषाणामदूरभवा । 'नड-कुमुद-वेतस-महिषाड्डित्' (६।२७४) डिद् मतुप्र० । [कान्तिमती] कान्तयो विद्यन्ते यस्यां सा । [शिम्बीमती] शिम्ब्यो विद्यन्ते यस्यां सा । [हरिमती] हरयो विद्यन्ते यस्यां सा । [चारु(र)मती] चार = वृक्षाः+ विद्यन्ते यस्यां सा । [इक्षुमती] इथूणि (इक्षवः) विद्यन्ते यस्यां सा । बन्धुमती] बन्धवो विद्यन्ते यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप्र० । [मधुमती] मधु विद्यते यस्यां सा । 'मध्यादेः' (६।२।७३) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप्र० । [दुमती] द्रुवो = वृक्षा विद्यन्ते यस्यां सा । [वसुमती] वसूनि = रलानि विद्यन्ते यस्यां सा । [अंशुमती] अंशवः = किरणा विद्यन्ते यस्यां सा । [श्रुमती] श्रूणि विद्यन्ते यस्यां सा ।। [हनूमती] हनुर्विद्यते यस्यां सा । 'अनजिरादिबहुस्वर-शरादीनां मतौ' (३।२७८) इति दीर्घत्वमिति विशेषः । [सानुमती] सानूनि = शिखराणि विद्यन्ते यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदित' (२।४।२) डीप्र० ।। छ ।। मास-निशा-ऽऽसनस्य शसादौ लुग् वा ।।२।१।१००।। [मासनिशाऽऽसनस्य] मासश्च निशा च आसनं च = मासनिशाऽऽसनं, तस्य । P. दल्मिरत्रास्ति । + चारु सौन्दर्य अस्यास्तीति - शब्दरत्नमहोदधौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252