________________
अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥
२०९
[राजन्वती पृथ्वी] शोभनो राजा यस्यां पृथ्व्यां सा = राजन्वती पृथ्वी । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप० । अनेन राजन्वत् निपातः ।
[राजन्वत्यः प्रजाः] शोभनो राजा यासां प्रजानां ताः = राजन्वत्यः प्रजाः । तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२०४।२) डी । अनेन राजन्वत् निपातः ।। छ ।।
नोादिभ्यः ।।२।१९९।। [नोादिभ्यः] न प्रथमा सि । ऊर्मिशब्द आदिर्येषां ते = ऊर्ध्यादयस्तेभ्यः । [ऊर्मिमान] ऊर्मयो विद्यन्ते यत्राऽसौ । [दल्मिमान्] दल्मिर्विद्यते यस्य । [कुञ्चामान्] क्रुञ्चा अत्राऽस्ति । [द्राक्षामान] द्राक्षा अत्राऽस्ति । सर्वत्र 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । एवमग्रेऽपि ।
[ज्योतिष्मती] ज्योतिर्विद्यते यस्यां सा । 'तदस्या०' (७।२।१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डी । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।
[महिष्मान् महिष । महिषाणामदूरभवा । 'नड-कुमुद-वेतस-महिषाड्डित्' (६।२७४) डिद् मतुप्र० । [कान्तिमती] कान्तयो विद्यन्ते यस्यां सा । [शिम्बीमती] शिम्ब्यो विद्यन्ते यस्यां सा । [हरिमती] हरयो विद्यन्ते यस्यां सा । [चारु(र)मती] चार = वृक्षाः+ विद्यन्ते यस्यां सा । [इक्षुमती] इथूणि (इक्षवः) विद्यन्ते यस्यां सा ।
बन्धुमती] बन्धवो विद्यन्ते यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२१) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप्र० ।
[मधुमती] मधु विद्यते यस्यां सा । 'मध्यादेः' (६।२।७३) मतुप्र० । 'अधातूदृदितः' (२।४।२) डीप्र० । [दुमती] द्रुवो = वृक्षा विद्यन्ते यस्यां सा । [वसुमती] वसूनि = रलानि विद्यन्ते यस्यां सा । [अंशुमती] अंशवः = किरणा विद्यन्ते यस्यां सा । [श्रुमती] श्रूणि विद्यन्ते यस्यां सा ।। [हनूमती] हनुर्विद्यते यस्यां सा । 'अनजिरादिबहुस्वर-शरादीनां मतौ' (३।२७८) इति दीर्घत्वमिति विशेषः ।
[सानुमती] सानूनि = शिखराणि विद्यन्ते यस्यां सा । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० । 'अधातूदृदित' (२।४।२) डीप्र० ।। छ ।।
मास-निशा-ऽऽसनस्य शसादौ लुग् वा ।।२।१।१००।। [मासनिशाऽऽसनस्य] मासश्च निशा च आसनं च = मासनिशाऽऽसनं, तस्य । P. दल्मिरत्रास्ति । + चारु सौन्दर्य अस्यास्तीति - शब्दरत्नमहोदधौ ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org