SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । [ ऋषीवती ] ऋषयोऽत्र सन्ति । 'नद्यां मतुः ' ( ६।२।७२) मतुप्र० । अधातूदृदितः ' (२।४।२) ङीप्र० । 'अनजिरादिबहुस्वर०' (३।२।७८) दीर्घत्वम् । २०८ [आसन्दीवान् नाम ग्रामः] आस् अग्रे टुनदु समृद्धौ ( ३१२) नद् । 'उदितः स्वरान्नोऽन्तः ' ( ४।४ ।९८) नोऽन्तः-नन्द् । आसिक्रियां नन्दति । 'कर्मणोऽण्' (५।१।७२) अण्प्र० अ० । पृषोदरादित्वात् । 'आसिक् उपवेशने' (१११९) आस् । आस्ते इति आसन्दी । ' कुमुद०' (६।२।९६ ) इति वा अप्र० ( ? ) । ‘अणञेयेकण्-नञ्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । आसन्दी = वेत्रासनं सा अत्रास्ति । ‘मध्वादेः' (६।२।७३) मतुप्र० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ' अभ्वादेरत्वसः सौ (१।४।९०) दीर्घः । ‘दीर्घड्याब्०’ (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः ॥ छ ॥ चर्मण्वत्य ऽष्ठीवच्-चक्रीवत् -कक्षीवद् - रुमण्वत् ||२।१।९६ || [चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद्द्रुमण्वत् ] चर्मण्वती च अष्ठीवच्च चक्रीवच्च कक्षीवच्च रुमण्वच्च, प्रथमा सि सूत्रत्वात् सिलोपः । समाहारत्वादेकत्वं नपुंसकत्वं च । [ चर्मण्वती नाम नदी] चर्माणि विद्यन्ते यस्यां सा । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२।१) मतुप्र० । 'माऽवर्णान्तोपान्ताऽपञ्चमवर्गान्मतोर्मो वः' (२।१।९४) म०व० । अत एव सूत्रनिर्देशाद् नलोपाऽभावः णत्वं च । 'अधातूदृदितः ' ( २।४।२) डीप्र० । [ अष्ठीवान् जोरुसंधिः] अस्थि । अस्थीनि विद्यन्ते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० । [ चक्रीवान् नाम गर्दभः ] चक्रं विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२।१) मतुप्र० । [ चक्रीवान् नाम राजा ] चक्राकारं लिङ्गं विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० । [कक्षीवान् नाम ऋषिः ] कक्ष्या विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० । [ रुमण्वान् नाम पर्वतः ] लवणं विद्यते यस्याऽसौ । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० । नाममालामध्यान् (ये) यल्लक्षणेनाऽनुप ( प ) न्नं तत्सर्वं निपातनात् सिद्धम् । [चर्मवती] 'नाम्नि ' (२।१।९५) म०व० ।। छ । [ उदन्वानब्धी] उदन्वत् प्रथमा सि । अब्धि सप्तमी ङि । उदन्वानब्धौ च || २ ।१ १९७ ।। [ उदन्वान् घटः ] उदकं विद्यते यस्याऽसौ उदन्वान् । ' तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० । अनेन उदकस्य • उदन्निपात्यते । प्रथमा सि । 'ऋदुदितः' (१।४।७० ) नोऽन्तः । ' अभ्वादेरत्वसः सौ' (१।४।९० ) दीर्घः । दीर्घड्याब्०' (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः । । छ । राजन्वान् सुराज्ञि ॥२॥११९८ ॥ [ राजन्वान् सुराज्ञि ] राजन्वत् प्रथमा सि । सुराजन् सप्तमी ङि । 'ई-डौ वा' (२।१।१०९) अनोऽस्य वा लुक् । [ राजन्वान् देशः ] शोभनो राजा यस्मिन् देशे स = राजन्वान् देशः । तदस्याऽस्त्यस्मिन्निति मतुः ' (७।२।१) मतुप्र० । अनेन राजन्वत् निपातः । P. 5 'अनतो लुप्' (१।४।५९) सिलोपः । P. * यत्र Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy