Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 219
________________ २१० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दंढिका । NNNNNN ARNIN [शसादौ] शस् आदिर्यस्याऽसौ शसादिस्तस्मिन् । [निच्छु] निशा । सप्तमी सुप् → सु । अनेन निश् । 'धुटस्तृतीयः' (२।१।७६) श० → ज० । 'अघोषे प्रथमोऽशिटः' (१३५०) ज० → च० । 'सस्य श-षौ' (११३।६१) स० → श० । 'प्रथमादधुटि शश्छ:' (१९३४) श० → छ० । [मासरूप्यः] मास । मासादागतः । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) रूप्यप्र० ।। छ । दन्त-पाद-नासिका-हृदया-ऽसृग्-यूषोदक-दोर्यकृच्छकृतो दत्-पन्नस-हृदसन्-यूषन्नुदन्-दोषन्-यकञ्-शकन् वा ।।२।१।१०१।। [दन्तपादनासिकाहृदयाऽसृग्यूषोदकदोर्यकृच्छकृतः] दन्तश्च पादश्च नासिका च हृदयं च असृग् च यूषश्च उदकं च दोश्च यकृच्च शकृच्च = दन्तपादनासिकाहृदयाऽसृग्यूषोदकदोर्यकृच्छकृत्, तस्य । [दत्पन्नस्हदसन्यूषनुदन्दोषन्यकञ्शकन्] दच्च पद् च नस् च हृच्च असन् च यूषन् च उदन् च दोषन् च यकन् च शकन् च = दत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकञ्शकन् । प्रथमा सि । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । [दन्तकल्पः] ईषदपरिसमाप्तो दन्तो = दन्तकल्पः । 'अतमबादेरीषदसमाप्ते कल्पप्-देश्यप-देशीयर' (७।३।११) कल्पप्प० → कल्प० ।। छ ।। य-स्वरे पाद: पदणि-क्य-धुटि ।।२।१।१०२॥ [यस्वरे पादः] यश्च स्वरश्च = यस्वरं, तस्मिन् = यस्वरे । पात् षष्ठी डस् । [पदणिक्यधुटि] पद् प्रथमा सि । णिश्च क्यश्च घुट् च = णिक्यघुट, न णिक्यघुट् = अणिक्यघुट्, 'नजत्' (३।२।१२५) न० → अ० । तस्मिन् = अणिक्यघुटि । 1 [वैयाघ्रपद्यः] 'घां गन्धोपादाने' (३) घा, वि-आड्यूर्व० । विविधमाजिघ्रतीति व्याघ्रः । 'व्याघ्रा-ऽऽघे प्राणि-नसोः' (५।११५७) डप्र० । 'डित्यन्त्यस्वरादेः' (२।१1११४) आलोपः । व्याघ्रस्येव पादावस्याऽसौ व्याघ्रपात् । 'पात् पादस्याऽहस्त्यादेः' (७।३।१४८) पाद० → पात्० । व्याघ्रपादोऽपत्यं वृद्धं । 'गर्गादेर्यञ्' (६१४४२) यप्र० → य० । 'लोकात्' (१1१1३) व पाठउ विश्लेषियइ. । “य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । अनेन । [द्विपात् द्वौ पादावस्याऽसौ द्विपात् । 'सु-संख्यात्' (७।३।१५०) पात् । [द्विपदः पश्य द्वौ पादौ येषां ते, तान् । 'सु-संख्यात्' (७।३।१५०) पात् आदेशः । द्वितीया शस् । अनेन पद् । [द्विपदी गाथा] द्वौ पादावस्याः सा । 'सु-संख्यात्' (७।३।१५०) पात् आदेशः । 'वा पादः' (२१४६) डीप० । अनेन पद् । मैं (३६) - ‘में शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । गीयते इति गाथा । 'कमि-पु-गार्तिभ्यस्थः' (उणा० २२५) थप्र० । 'आत्' (२।४।१८) आप् । [व्याघ्रपदी स्त्री] व्याघ्रस्येव पादावस्याः सा । 'पात् पादस्याऽहस्त्यादेः (७।३।१४८) पात् । ‘वा पादः' (२।४।६) डीप्र० । अनेन पद् । व्याघ्रपदी कुले] व्याघ्रस्येव पादौ ययोस्ते । ‘पात् पादस्याऽहस्त्यादेः' (७।३।१४८) पात् । ‘औरीः' (१।४।५६) ई. । अनेन पद् । [द्विपदिकां ददाति] द्वौ पादौ ददाति । 'संख्याऽऽदेः पादादिभ्यो दान-दण्डे चाऽकल् लुक् च' (७।२।१५२) अकल्प० । अनेन पद् । 'आत्' (२।४।१८) आप् । 'अस्याऽयत्-तत्-क्षिपकादीनाम्' (२१४१११) इ. । बृहद्वृत्तौ-मध्यमवृत्तौ च- 'त्रिपदी गाथा' । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252