Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 224
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ [ शौवनम् ] शुनः इदं = शौवनम् । ‘तस्येदम्' (६।३।१६० ) अण्प्र० । 'द्वारादेः' (७।४।६) वकारप्राक् शकारआगलि औकारागमु । 'नोऽपदस्य तद्धिते' (७।४।६१) अनो लोपः प्राप्नोति, 'अणि' (७|४|५२) इति निषिध्यते । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । [ यौवनम् ] यूनो भावः कर्म वा । युवादेरण्' (७।१।६७) अण्प्र० । [ माघवनम् ] मघवा देवता अस्य । प्राग् जितादण्' (६।१।१३) अण् । 'वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृद्धिः । [ अतिश्वानि] अतिक्रान्तः श्वा यैस्तानि इति बहुव्रीहिः कार्यः, तत्पुरुषे हि 'गोष्ठा ऽतेः शुनः' (७|३|११०) इत्यट् समासान्तः स्यात् । [ अतियुवानि] अतिक्रान्तो युवा यैस्तानि । [ अतिमघवानि कुलानि] अतिक्रान्तो मघवा यैस्तानि । [गोष्ठश्वेन] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सौऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताऽभावे नैमित्तिकस्याऽप्यभावः' ( न्यायसं० १।२९ ) स्था, गोपूर्व० । गावस्तिष्ठन्तीति गोष्ठाः । स्था-पा-स्ना-त्रः कः' (५/१/१४२) कप्र० । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'गोऽम्बा - SSम्ब- सव्या-ऽप-द्वि-त्रि-भूम्यग्नि- शेकु शङ्कु-क्वङ्गु-मञ्जिपुञ्ज बर्हिः - परमे-दिवेः स्थस्य' (२।३।३०) स० षत्वम् । गोष्ठेषु श्वेव । ' गोष्ठा - ऽतेः शुनः' (७।३।११०) अट्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१ ) अन्त्यस्वरादिलोपः । [ युवतीः पश्य] युवानः पुरुषाः स्त्रियश्चेत् युवत्यस्ताः । 'यूनस्तिः' (२।४।७७) तिप्र० । द्वि० शस् । [ मघवतः पश्य ] मघवा विद्यते येषां ते = मघवानस्तान् । 'तदस्या०' (७।२1१) मतुप्र० । 'ड्यापो बहुलं नाम्नि' ( २/४१९९ ) ह्रस्वः । [तत्त्वदृश्वना ] तत्त्व 'दृशृं प्रेक्षणे' (४९५) दृश् । तत्त्वं दृष्टवान् । 'दृशः क्वनिप्' (५११११६६) क्वनिप्प्र० वन्० । २१५ [मातरिश्वना] 'टवोश्चि गति वृद्धयोः' (९९७) श्वि, मातृपूर्व० । मातरि धयति । श्वन्- मातरिश्वन्- मूर्धन् - पीहन्नर्यमन्विश्वप्सः परिज्वन्-महन्नहन्- मघवन्नथर्वन्निति' (उणा० ९०२) अन्प्र० निपातः । तृतीया टा । । छ । । लुगाऽऽतोऽनापः || २ |१|१०७ ।। [लुगाऽऽतोऽनापः] लुच् प्रथमा सि । आत् षष्ठी इस् । न आप् = अनाप्, 'अन् स्वरे' (३1२1१२९) अन्, तस्य । [कीलालपः ] 'पां पाने' ( २ ) पा । कीलालं रुधिरं जलं पिबन्तीति कीलालपास्तान् । 'मन्-वन्-क्वनिप्-विच् क्वचित्' ( ५1१1१४७) विच्प्र० । ॥छ।। [कीलालपा ] कीलालं पिवतीति तेन । [कीलालपे] कीलालं पिवतीति तस्मै । [ शुभंया] शुभं 'यांक प्रापणे' (१०६२) या । शुभं यातीति क्विप् । 'अप्रयोगीत्' (१११।३७) क्विप्लोपस्तेन । [ शुभंये] शुभं यातीति क्विप् । 'अप्रयोगीत्' (१1१1३७ ) क्विप्लोपस्तस्मै । [ह्यहे देहि] हाहा । चतुर्थी ङे । 'डुदांग्क् दाने' (११३८ ) दा । पञ्चमी हि । 'हो द:' ( ४।१।३१) आ० → ए Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252