Book Title: Shrutsagar 2019 11 Volume 06 Issue 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
November-2019
॥३॥
॥४॥
SHRUTSAGAR
___21 २. अजितनाथ जम्बूपूर्वविदेहवत्सविजये श्रीमत्सुसीमापुरे, क्ष्मापालः प्रथमे भवे ऽरिदमनाचार्यान्तिकात्तव्रतः१ । सञ्जातो विजये ततः सुरवरः श्रीमान् द्वितीये भवे२, तीर्थेशो जितशत्रुभूपतनयश्चुत्वा ततोऽनुत्तरात् ३. संभवनाथ पूर्वे जन्मनि नीति-रीतिनिपुणो विश्वम्भरायाः प्रभुः, सञ्जातो रमणीयनाम्नि विजये प्रव्रज्य पार्श्वे गुरोः । आराध्यानशनं च दानवरिपुर्णैवेयके सप्तमे, सेनायास्तनयस्तृतीयजनुषि श्रीश(स)म्भवः स्तात् श्रिये ४. अभिनंदनस्वामी जातो रत्नपुरे महाबल इति ख्यातः क्षितीशो भवे, पौरस्त्येविमलाख्यसूरिनिकटोपात्तव्रतो जीविता(त?)म् । पूर्णीकृत्य जयन्तनामनि महा-वर्ये विमाने सुरः, स्वामी श्रीअभिनन्दनस्तनुमतां देयादमेयं सुखम् ५. सुमतिनाथ आद्ये जन्मनि कीर्तिमानतिबलः क्षमापालचूडामणिः, श्रीसीमन्धरसूरिपादसविधे लात्वा तपस्यां पुनः । निर्मायानशनं द्वितीयजनने जातो जयन्ते सुरस्तीर्थेशः सुमतिः समस्तजगतां भूयाद् विपत्तिच्छिदे ६. पद्मप्रभस्वामी पूर्वं श्रीअपराजिताभिधमहीभुग् धातकीखण्डके, जातः पूर्वविदेहवत्सविजयालङ्कारही(हा?)रोपमः । आदाय व्रतमादरेण नवमे ग्रैवेयके निर्जरः, श्रीपद्मप्रभनामधेयजिनराट् श्रेयः सतां यच्छतु
॥५॥
॥६॥
॥७॥
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36