Book Title: Shrutsagar 2019 11 Volume 06 Issue 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir November-2019 ॥१३॥ ॥१४॥ SHRUTSAGAR १२. वासुपूज्यस्वामी स्वामी रत्नपुरस्य पुष्करवरप्राचीविदेहेऽभवत्, श्रीपद्योत्तरनामभूपतिवरः श्रीवज्रनाभं गुरुम् । साक्षीकृत्य तपस्वितस्त्रिदशतां प्राप्तः पुनः प्राणते, सर्वेषां विदधातु वाञ्छितफलं श्रीवासुपूज्यो जिनः १३. विमलनाथ क्षेत्रे भारतनामनि क्षितिपतिः श्रीपद्मसेनाभिधः, पूर्वस्मिन् जनने किलाऽजनि महा-पूर्या नगर्याः प्रभुः। प्रव्रज्याऽष्टमदेवलोकविबुधः श्रीसर्वगुप्त्य(प्ता)न्तिके, श्यामायास्तनयस्त्रयो दश जिनश्च्युत्वा ततः स्वर्गतः १४. अनंतनाथ श्रीमान् द्यरथाभिधाननृपतिः पौरस्त्यजन्मन्यभूत्, सूरेश्चित्ररथाभिधस्य निकटे दीक्षां विशुद्धां श्रितः । पश्चात् प्राणतकल्पवासि विबुधो निर्माय शुद्धं तपस्तार्तीयीकभवे चतुर्दशजिनः श्रीसिंहसेनाङ्गजः १५. धर्मनाथ मानामधिनायको दृढरथः श्रीभद्दिलाख्ये पुरे, पार्श्वे श्रीविमलादिवाहनगुरोरादाय शुद्धं व्रतम् । सम्पूर्णे निजजीविते च विजये जातः सुराणां वरः, पुण्याम्भोजविबोधवासरमणिः श्रीधर्मनाथस्ततः १६. शांतिनाथ श्रीषेणाभिधभूपतियुगलकंर सौधर्मकल्पे सुरो३, वैताढ्ये च नभश्चरः४ सुरवरः५ कल्पेऽभवत् प्राणते। सीरास्त्रपस्त्वपराजितोऽच्युतधरो७ वज्रायुधश्चक्रभृद्८, देवो भूत् सुजये नृपो घनरथो१० देवो११ जिनः षोडशः१२ ॥१५॥ ॥१६॥ ॥१६(१७)॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36