Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् । प्रन्थक-गुरुवंशा अश्चलगच्छपट्टावल्यां वर्णनमस्ति यद्-अञ्चलगच्छेशाचार्यमहेन्द्रप्रभसूरिणा स्वपट्टे त्रय आचार्या प्रतिष्ठापितास्ते इमे १. प्रथमो मुनिशेखरसूरिः-यतः शेखरशाखा प्रादुर्भूता, अतःपरं. तत्परिचयः क्वापि न दरीदृश्यते । २. द्वितीयो मेरुतुङ्गसूरिः-तस्य च वि. सं. १४०३ वर्षे नाणाग्रामे जन्म, सं. १४१८ वर्षे दीक्षा, सं. १४२६ वर्षे सूरिपदं, सं. १४७३ वर्षे जीर्णदुर्गे स्वाप्तिश्च । तेन बालबोधव्याकरण-भावकर्मप्रक्रिया शतकभाष्य-जैनीयमेघदूतकाव्य-नमुथुणस्तुतिटीका-सुश्राद्धकथा--उपदेशमालावृत्ति-पट्टावलीप्रमुखा ग्रन्था निर्मिताः, तत्पट्टे च जयकीर्तिसूरिर्जातः तन्महा. प्रभावकोपाध्यायभुवनतुङ्गसूरितः तुङ्गशाखा निर्गता । ३. तृतीयो जयशेखरसूरि:-महाकविः, यः शारदालब्धप्रसाद आसीत् । तेन दमयन्तीचम्पू- जैनकुमारसम्भवादिमहाकाव्यपञ्चकटीका- सटीकोपदेशचिन्तामणि-कल्पसूत्रसुखावबोधविवरण-प्रबोधचिन्तामणि-धम्मिलचरितन्यायमञ्जरीप्रमुखा निर्मिता ग्रन्था उपलभ्यन्ते । मेरुतुङ्गसूरिशिष्यमाणिक्यसुन्दरसूरिणा ह्येतत् श्रीधरचरितमहाकाव्यं संदृब्धम् । ग्रन्थकर्व-परिचय: माणिक्यसुन्दरसूरिणा स्वगच्छ-गुरु-वियागुरु-सत्तासमय-प्रन्थरचन!-- निर्देशः स्वयमेवकृतोऽस्ति, स चैवम्सेवन्तेऽमृतकान्तिकीर्तिकमलासौभाग्यभाग्यादयो, भूपाला इव यं गुणाः कलियुगवस्ताः शरण्यं नृपम् । स श्रीअचलगच्छवासरमणिः सूरीन्द्रचूडामणि- ... भूमीहारनिमश्चिरं विजयतां श्रीमेरुतुको गुरुः ॥११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 199