Book Title: Shridhar Charit Mahakavyam Author(s): Manikyasundarsuri, Gyanvijay Publisher: Chandulal Lakhubhai Parikh View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुरुषे ? योगी जगौ-यदर्थमिमा जुहोमि तत्कार्य मम त्वत्तोऽपि भविष्यति । कुमारेणोक्तम्-- मुञ्चेमां कन्याम् , निर्वतय तय कार्य ममाङ्गमांसेन । तत् कर्म विदधानयोस्तयोस्तत्र चेटकः प्रकटीभूतः वक्ति--तव कार्येणालम् , साइसात् तव तुष्टोऽस्मि, अतः समीहितं बरं वृणु । तेनोक्तम्-तब कार्यकृद्योगिनोऽस्य कार्य सफलीकुरु । चेटकः कथयति-एतत्तव प्रार्थनयाऽलम, परमहं गारुडं मन्त्रं तुभ्यं ददामि, यदा किश्चिदपि कार्य स्यात् स्मर्तव्योऽहं स्वया, अद्यप्रभृति तव दासोऽस्मीति जानीहि । तदन्तरं चेटक-कुमारी तां कन्यां नीत्या नृपान्तिकं जग्मतुः। कस्येय कन्या-इति पृच्छति राजनि निवेदयति चेटका-तव नगरनिवासिनः दत्तनाम्नः श्रेष्ठिन! कन्येयम् । वसन्तलक्ष्मीनिरूपणार्थ सखीभिः सह वनं गतेयं कन्या योगिना धृता । व्याघ्रमुखाद् हरणीमिवानेन वीरकुमारेण रक्षिता । राज्ञा दत्तश्रेष्ठी आकारितः। वृत्तान्ते निवेदिते दत्तश्रेष्टी उपसंजहारमम कन्यायाः रत्नवल्याः पाणिग्रहणमनेन कुमारेण सह भाव्यम् । राज्ञाऽनुमतस्तस्य लग्नोत्सवोऽपि विदधे | अपरेद्य : क्रीडार्थं स कुमारः रत्नवल्या सह वनं गतः । तत्रावसरे नगरात् कयोश्चिन्नरनार्यो: करुणाक्रन्दनं तेन श्रुतम् । तवृत्तं ज्ञातुं सेवकं सः प्राहिणोत् । ततः सेवक आगत्य निवेदयति-नय. सारमन्त्रिणः दुहितुः कनकमालायाः सर्पदंशान्मृत्युरजनि, तेनेदं क्रन्दनं श्रूयते । कुमारस्तत्र वेगेनागत्य गारुडमन्त्रेण तस्याश्चेतनं पुनः प्रकीकृतम् । तेन मन्त्री प्रमुदितः कन्यामादाय गृहमगात् । कुमारोऽपि क्रोडां कृत्वा वनाद् निवतितः । अन्येयुः नयसारः राजसभामागल्य जगी--अनेन कुमारण मम दुहिता पुनरजीव्यत, तेन साऽस्य शरणं भजतु । ततः शृङ्गारेण सन्जीकृतोऽसो कुमारो हस्तिनमारुह्य विवोढुं नयसारमन्त्रिणः प्रासादमण्डपमगात् । महता महेन च तत्र लग्नोत्सवः निर्वर्तितः ।। तत्पश्चाद गजभ्रमनृपोऽपि न्यवेदयत् कुमारम्-तब सेवयालम् , प्रीणितोऽस्मि, अतः सुखेन वासरान निर्गमय । For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 199