Book Title: Shridhar Charit Mahakavyam
Author(s): Manikyasundarsuri, Gyanvijay
Publisher: Chandulal Lakhubhai Parikh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वयंवरणार्थ कलासौन्दर्येण सजित विशालमण्डपमपि स दृष्टवान् । तत्रा. सीनेषु सर्वेष्वपि नृपेषु विजयचन्द्र इन्द्रदत्तशृङ्गारेणातीवदेदीप्यमानो दृश्यते । सप्तमसर्गे-स्वयंवरमण्डपे मगधस्य राजा पुरन्दरः, विदर्भस्य महेन्द्रः, कोशलस्यानन्तः, काशीराजः, रैवतस्य पद्मः, कलिङ्गराजः, मालवराजः, गज. पुरस्य मदनः, कम्बोजस्य कीर्तिपालः, मिथिलायाः कमलचन्द्रः, मलयस्य कृपः, काश्मीरस्य प्रतापः, हस्तिनापुर्या इत्यादिनृपास्तत्रागताः । तेषां सर्वेषामपि प्रशसां सखीमुखात् संश्रुत्य सा सुलोचना विजयचन्द्रस्य कण्ठे वरनजमारोप्य वलिता ।। अष्टमसर्ग-अत्रान्तरे विजयचन्द्रस्योपरि सर्वे राजानः कोपान्विताः 'सजाताः । काश्मीरस्य प्रतापभूपस्तत्राग्रणीभूतः, तेन सह योदधुमारभत । परं दवीसाहाय्येन विजयचन्द्रः युद्धे विजितः । सर्वानपि राज्ञः सम्मान्य रत्नाजदः निर्वर्तितवान् । विजयचन्द्रोऽपि सुलोचनया सह गृहं गन्तुं सज्जीबभूव । मार्गे कुत्रचिद्वने विजयचन्द्रः सैन्यं न्यवेशयत् । मध्याहने पूजावसरे कश्चिञ्चारणस्तत्रागल्य जिनेश्वरस्य स्तुतिं कृतवान् । कस्त्वमिति विजयचन्द्रेण पृष्टे तस्य सप्तावतारस्य तेन सह सम्बन्धो न्यगादि । ततः प्रस्थानावसरे कालनामा कश्चिद् दैत्य आगत्य तत्र सुलोचनां जहार । तद्वियोगदुःखं क्षणमप्यसहमानो विजयचन्द्रः सत्वरं चेटकं सस्मार। चेटकस्तत्रागत्य सुलोचनायाः शुद्धि न्यवेदयत्-चमरचञ्चायां पुर्ण वनदादनामा खेचरस्तव सुलोचनां जहे । स खेचरो ममाप्यजय्यः, परं कियत्कालान्तरं तव सत्त्वेनैव स जेष्यते त्वया । ततः सत्त्वशाली सः सैनिकानादिश्य प्रियामाहर्तुमुत्तरां प्रति प्राचालीत् । तत्रैकस्मिन् वनान्तरे काश्चिन्नागकन्या हल्लीसकादिक्रीडां कृतवती: स दृष्टवान् । तासु मुख्या पुरोभूय विजयचन्द्रं प्रेक्यावादीत्-अहं तव माता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 199