________________
२७०
षट्प्राभृते
धर्म्य ध्यानमित्युमास्वोमिसूचेनात् । तथा श्रीगौतमस्वामिवचनाद्धर्म्यं ध्यानं दशविधं । तद्यथा । अपायविचयः १ उपायविचयः २ विपाकविचयः ३ विरागविचयः ४ लोकविचयः ५ भवविचयः ६ जीवविचयः ७ आज्ञाविचयः ८ संस्थानविचयः ९ संसारविचयश्चेति १० । तथा शुक्लध्यानं ध्याय पृथक्त्ववितर्कवीचारं १ एकत्ववितर्कवीचारं २ सूक्ष्मक्रियाप्रतिपाति ३ व्युपरतिक्रियानिवर्ति ४ चेति । अह रउद्दं च झाण मुत्तूण आर्त्त रौद्रं च ध्यानद्वयं मुक्त्वा परित्यज्य । तत्रार्त्तध्यानं चतुर्विधं इष्टवियोगः १ अनिष्टसंयोगः २ पीडाचिन्तनं ३ निदानं चेति ४ । रौद्रध्यानं चतुर्विधं हिंसानन्दः १ अनुतानन्दः २ स्तेयानन्दः ३ संरक्षणानन्दश्चेति ४ | रूद्दट्ट झाइयाई रौद्रा द्वे ध्याने ध्यातानि ( ध्याते ) । इमेण जीवेण चिरकालं इमेन प्रत्यक्षीभूतेन जीवेनात्मना चिरकालं अनादिकालं । धर्म्य शुक्लं च ध्यानद्र्यं न ध्यातमिति भावार्थः ।
1
जे के वि दव्वसवणा इंदियसुहआउला ण छिंदंति । छिंदति भावसवणा झाणकुढारेहिं भवरुक्खं ॥ १२०॥
ये केपि द्रव्यश्रवणा इन्द्रियसुखाकुला न छिन्दन्ति । छिन्दन्ति भावश्रवणा ध्यानकुठारेण भववृक्षम् ॥
जे के विदव्वसवणा ये केऽपि द्रव्यश्रवणाः शरीरमात्रेण दिगबरा अन्तर्जिन सम्यक्त्वशून्याः । इंदियसुहआउला ण छिंदंति इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुः श्रोत्रलक्षणानां विषयाणां सुखेषु आकुलाः । कदा उर्वोरुपरि विवक्षितवनितायाः पादौ विन्यस्य स्तन
66
१ आज्ञापायविपायकसंस्थानविचयाय धर्म्यं " इति सूत्रसूचनात् । २ वचनातू ख. पुस्तके पाठः । ३ भवदुक्खं. घ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org