Book Title: Sarvsiddhantpraveshak
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur

View full book text
Previous | Next

Page 19
________________ नैयायिकदर्शनम् संशय- तर्काभ्यामूर्ध्वं निश्चितः प्रत्ययो निर्णयः ॥ तिस्रः कथाः - वादो जल्पो वितण्डा । तत्र शिष्या - ऽऽचार्ययोः पक्षप्रतिपक्षपरिग्रहेण अभ्यासख्यापनाय वादकथा || विजिगीषुणा सार्द्ध "छल जाति-निग्रहस्थानसाधनोपालम्भो जल्पः " [न्या० सू० १ २ २] ॥ स्वपक्षस्थापनाहीनो वितण्डा || अनैकान्तिकादयो हेत्वाभासाः ॥ नवकम्बलो देवदत्त इत्यादिच्छलम् ॥ दूषणाभासास्तु जातयः ।। निग्रहस्थानानि पराजयवस्तूनि । तद्यथा - " प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम् अविज्ञातार्थम्, अपार्थकम् अप्राप्तकालम्, न्यूनम् अधिकम्, पुनरुक्तम्, अननुभाषणम्, अप्रतिज्ञानम्, अप्रतिभा, विक्षेप:, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्चेति निग्रहस्थानानि " [न्या० सू० ५|२|१] ॥ इति नैयायिकंदर्शनं समाप्तम् ॥ [ वैशेषिकदर्शनम् ] अथ वैशेषिकतन्त्रसमासप्रतिपादनायाह- द्रव्य-गुण-कर्म-सामान्यविशेष- समवायानां तत्त्वज्ञानान्निःश्रेयसाधिगमः । तत्र नव द्रव्याणि - प्रत्ययः 'एवमिदम्' इति निर्णयः । अयं तु संशयात् प्रच्युतः कारणोपपत्तिसामर्थ्यात्.....निर्णयं चाप्राप्तो विशेषादर्शनात् । " - न्यायवार्तिक पृ० ३२७ ।। १. पलम्भ A ॥ २. अनेकान्तादयो B ॥ ३. 'दत्तादिच्छ° B ॥ ४. °र्थकम् A ॥ ५. कथाविक्षेप: A ॥ ६. योगोपे A ॥ ७. 'योगानु A ॥ ८. 'सश्चेति B ॥ ९ इति A नास्ति ॥ १०. 'कमतं स A॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50