Book Title: Sarvsiddhantpraveshak
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur

View full book text
Previous | Next

Page 32
________________ १८ सर्वसिद्धान्तप्रवेशकः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेवेति । अस्मात् त्रिरूपाल्लिङ्गान्निश्चिताल्लिङ्गिनि साध्यधर्मविशिष्टे धर्मिणि ज्ञानमनुमानम् । इत्येवं द्वे एव प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् । इति सुगतसिद्धान्तः समाप्तः "I [ मीमांसकदर्शनम् ] मीमांसकसिद्धान्ते वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना यत उक्तम्"चोदनालक्षणोऽर्थो धर्म:" [जै० सू० १ १/२ ] | चोदना च क्रियायाः प्रवर्तकं वचनमाहुः, यथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, न पुनः प्रत्यक्षादिना । १० आह- कथं प्रत्यक्षमनिमित्तम् ? यतस्तदेवंविधम्- "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिर्मित्तं विद्यमानोपलैम्भकत्वात्" [जै० सू० १|१|४ ] | तथा अनुमानमप्यनिमित्तम्, प्रत्यक्षपूर्वकत्वात् तस्येति । तथा उपमानमप्यनिमित्तमेव । २ १३ यतस्तस्य गो- गवयसादृश्यग्रहणे सति गौरेव प्रमेयः । तथा अर्थापत्तिरपि, सा च द्विधा - श्रवणाद् दर्शनाच्च । श्रवणाद् यथा पीनो १. 'सत्त्वमेवेत्येतस्मात् B ॥ २. 'ङ्गाज्ञानन्निश्चितालिङ्गिनि A ॥ ङ्गान्निश्चितं लिङ्गिनि B ॥ ३. साध्य B नास्ति । ४. सुगतमतं समाप्तम् B ॥ ५. 'राद्धान्ते B ॥ ६. " तस्य निमित्तपरीष्टि:- " जै० सू० १|१| ३ || ७. च B नास्ति ॥ ८. यतश्चोक्तम् B ॥ ९. क्षणो धर्मः A ॥ १०. “ चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः " - शाबरभाष्य १|१| २ || ११ . मित्तं च विद्य' A ॥ १२. 'लम्भत्वात् A । "लम्भनत्वात्" इति मुद्रिते जैमिनिसूत्रे ॥ १३. गौरिव गवयः प्रमेयः B | अत्रेदं ध्येयम् । 'गौरिव गवयः' इत्युपमानं नैयायिकानां शोभते । मीमांसकग्रन्थेषु 'एतेन ( गवयेन) सदृशो गौः' इत्येव उपमानस्वरूपं वर्णितं सर्वत्र शाबरभाष्य-मीमांसाश्लोकवार्तिकादिषु । एवमेव चानूदितमन्यैरपि - "जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति । यदा श्रुतातिदेश Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50