Book Title: Sarvsiddhantpraveshak
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur

View full book text
Previous | Next

Page 34
________________ २० सर्वसिद्धान्तप्रवेशकः [शाबरभाष्य, १।१।५. पृ० ४५] । वायोश्च वक्त्रा प्रेरितस्य श्रोतुः श्रोत्रदेशं प्राप्तस्य ये संयोगविभागास्तेऽभिव्यञ्जका गकारादिवर्णानाम् । ते चाभिव्यक्ता एव वाचकाः, नान्यथा । नित्यश्च शब्दार्थयोः सम्बन्धः । न च मीमांसकानां वर्णव्यतिरिक्त पद-वाक्ये स्तः, तेष्वेव पदवाक्योपचारात् ॥) इति मीमांसकसिद्धान्तः समाप्तः ॥ [लोकायतिकमतम्] बृहस्पतिमतानुसारिविहितप्रमाणप्रमेयस्वरूँपनिरूपणाय समासेनेदमाह । तेत्र च प्रमेयनिरूपणायाह-"पृथिव्यापस्तेजो वायुरिति तत्त्वानि" [बृह० सू०] । आह-तत्त्वान्तरमप्यस्ति शरीरेन्द्रियादि । न तत्त्वान्तरम्, यतः "तत्समुदाये शरीरेन्द्रियविषयसंज्ञा" [बृह० सू०] । शरीरं भूतसमुदायः तथेन्द्रियाणि विषयाश्चेति । तस्माच्चत्वार्येव तत्त्वानि । ज्ञानं तत्त्वान्तरमिति चेत्, तदपि न, यत आह-"तेभ्यश्चैतन्यम्" [बृह० सू०], तद्धर्म एवेत्यर्थः, मद्याङ्गानां मदशक्ति वत् । ननु चात्मा १. चाभिव्यञ्जका एव न वाचका B। "अभिघातेन हि प्रेरिता वायवः स्तिमितानि वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्ति यावद्वेगमभिप्रतिष्ठन्ते ।'-शाबरभाष्य १।१।१३ ॥ २. नित्यः शब्दा° A ॥ ३. 'कमतस्य दिक्प्रदर्शनमिति B॥ ४. रूपप्रदर्शनाय B ॥ ५. तत्र प्रमेयनिरूपणार्थमाह B ॥ ६. "ननु यापप्लवस्तत्त्वानां किमापा... अथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा''-तत्त्वोप० सिंह पृ० १। “पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा"-धर्मसं० वृ० पृ० २५ A ७२ BI "यदुवाच वाचस्पतिः-'पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञाः, तेभ्यश्चैतन्यम्' इति"-षड्द० बृ० पृ० १२४ । स्या० र० पृ० १०८५ ॥ ७. दिकं तत्त्वान्तरं यतस्तन्न तत्समु° B ॥ ८. "अत्र...लोकायतिकाः... 'तेभ्यश्चैतन्यम्, मदशक्तिवद् विज्ञानम्, चैतन्यविशिष्टः कायः पुरुषः' इति चाहुः।" -ब्रह्मसूत्र-शांकरभाष्य ३।३।५३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50