Book Title: Sarvsiddhantpraveshak
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur

View full book text
Previous | Next

Page 30
________________ १६ सर्वसिद्धान्तप्रवेशकः विषयाकारपरिणामः प्रत्यक्षं प्रमाणमिति उच्यते ।। अथानुमानम्"सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् ।" [ ] सम्बन्धादविनाभावलक्षणेन सम्बन्धेन लिङ्गात्, यथा धूमादग्निर त्रेति ॥ “आप्तोपदेशः शब्दः" [न्या० सू० १७] । यो यत्राभियुक्तः मनसाधिष्ठिता वृत्तिः शब्द-स्पर्श-रस-रूप-गन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति ।"-नयचक्रवृत्ति पृ० १०७।। १. "त्यक्षप्र B ॥ २. उच्यते A नास्ति ।। ३. तथा A ।। ४. नेदमार्याधु B प्रतौ । "एतेन सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्, इति लक्षणं प्रत्युक्तम् ।" -न्यायवा० १।१।५, पृ० १६७ । “सम्प्रति साङ्ख्यीयमनुमानलक्षणं दूषयतिएतेनेति । सम्बन्धोऽविनाभावः साधनस्य साध्येन, तस्मात् प्रत्यक्षाद्... एकस्माद्... शेषस्य अनुमेयस्य सिद्धिः ।....सम्बन्ध्यत इति व्युत्पत्त्या सम्बन्धो लिङ्गम्, तेनाविनाभूताद्धेतोः प्रत्यक्षादनुमेयसिद्धिरिति"-न्यायवा० ता० पृ० १६७ । नयचक्रवृत्तौ तु 'सम्बन्धाद्' 'सम्बद्धाद् इत्युभयविधोऽपि पाठो दृश्यते-"सम्बद्धैकदेश इति वा पाठः । यथोक्तम्-‘सम्बद्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् ।' सम्बद्धानां भावानां स्वस्वाभिभावेन वा इत्यादिना सप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति तस्मादिदानीमिन्द्रियप्रत्यक्षाच्छेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं तत्, यथा धूमदर्शनादग्निरिति ज्ञानम् ।"-नयचक्रवृत्ति पृ० २४० । "सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् ।...यथायोगं स्व-स्वामिनिमित्त-नैमित्तिकादिषु तेन तेन सम्बन्धेन सम्बन्धात् प्रत्यक्षादिति प्रत्यक्षस्य धर्मादुपलब्धात् प्रसिद्धादिति यावत् । तत्रैको यः प्रत्यक्षः स पक्षधर्मः शेषोऽनुमेयः, ....प्रत्यक्षवत् प्रत्यक्ष: प्रसिद्धः, तस्मात् प्रसिद्धत्वात् सम्बन्धी पक्षधर्मोऽश्वः स्वम्, तस्य पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य चैत्रस्य सिद्धिरिति ।"-नयचक्रवृत्ति पृ० ६८८ ॥ ५. "प्रत्यक्षादीन्यपि च तन्त्रान्तरेषूपदिश्यन्ते-'श्रोत्रादिवृत्तिः प्रत्यक्षम् । सम्बन्धादेकस्माच्छेषसिद्धिरनुमानम्। यो यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः, तस्योपदेश आप्तवचनम्' इति''-सांख्यका० युक्तिदी० पृ० ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50