Book Title: Sarvsiddhantpraveshak
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith Shajapur
View full book text
________________
सर्वसिद्धान्तप्रवेशकः
[जैनदर्शनम्] अथ जैनसिद्धान्तानुसारेण प्रमाण-प्रमेयस्वरूपावधारणायेदमुपदिश्यते । आह-यद्येवम्, ब्रूहि किं तत् प्रमाणं प्रमेयं च ? इति । तत्र प्रमेयं "जीवा-ऽजीवा-ऽऽस्रव-बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम्" [तत्त्वार्थसूत्र० १।४] । तत्र सुख-दुःख-ज्ञानादिपरिणामलक्षणो जीवः । विपरीतस्त्वजीवः । “मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः, काय-वाङ्-मन:कर्म योगः, स आश्रवः, शुभः पुण्यस्य" [तत्त्वार्थसूत्र ८।१, ६।१, ६।२, ६।३] विपरीतः पापस्य । आश्रवकार्य बन्धः । आश्रवविपरीतः संवरः । संवरफलं निर्जरा ।
अथ प्रमाणं प्रत्यक्षमनुमानमागमश्चेति । तत्र प्रत्यक्षम्इन्द्रियमनोनिमित्तं विज्ञानं निश्चितमव्यभिचारीति लौकिकं व्यवहारतः प्रत्यक्षम्, अवध्यादि निश्चयतः । अन्यथाऽनुपपन्नाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम्, यथा धूमादग्निज्ञानम् । 'तपसः स्वर्गो भवति' इत्यागमः प्रमाणम्, निश्चिता-ऽविपरीतप्रत्ययोत्पादकत्वात्, चक्षुरादिवत् ।
इति जैनसिद्धान्तप्रवेशकः समाप्तः ॥
Il lil
the
१. किमेतत् A || २. °ऽऽश्रव-बन्ध-संवर-निर्जरा B || ३. "अशुभः पापस्य'-तत्त्वार्थसूत्र ६।४॥ ४. तत्र प्रमाणं B ॥ ५. यद्यपि "प्रमाणं द्विधाप्रत्यक्षं परोक्षं च" [प्र० मी० १।१।९, १०] "विशदः प्रत्यक्षम्" [प्र० मी० १।१।१३] "अविशदः परोक्षम्, स्मृतिप्रत्यभिज्ञानोहानु-मानागमास्तद्विधयः" [प्र० मी० १।२।१,२] इति प्रमाणमीमांसादिश्वेताम्बरीयग्रन्थेषु प्रमाणविभाग उपलभ्यते, किन्तु स अकलङ्कोपज्ञ इति प्रतीयते । श्वेताम्बराणां प्राचीनतमेषु ग्रन्थेषु तु त्रिविधत्वं प्रमाणानां बहुत्र वर्णितं दृश्यते । दृश्यतां न्यायावतारः (सिद्धसेनदिवाकरप्रणीतः) कारिका ४,५,६,७. । न्यायावतार-वार्तिकवृत्तिः पृ० ७७, ९९ । अनेकान्तजयपताकाटीका पृ० १४२, २१५ ॥ ६. चारि लौकिकं A ॥ ७. "साध्याविनाभुवो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ।।४।।'' -न्यायावतारः ॥ ८. इत्यागमं B ।। ९. समाप्तम् B नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50