Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 3
________________ जयतितरां मुनित्रयम. विदितमेतदशेषाणां विदुषां यदेतव्याकरणं नाम वाक्काळुष्यापनयने कतकबीना यत इति । एकस्य शब्दस्यापि यथावत्परिझानेन स्फोटब्रह्मप्राप्तिरप्युक्तात्रैव भाष्यकारादिभिः । व्याकरणविषयेऽनेके ग्रन्था उपलभ्यन्ते । तत्र चैतत्सारस्वत नाम प्रायश उदीच्यविषयेषु बहुशः प्रचलति । एतच्च सटीक केवलं च बहुशो बहुभिरङ्कितं प्रथितं च सर्वत्र । चन्द्रकीविटीकासंवलितोऽस्य पूर्वाधोऽपि नूलतयैकेन प्राकाशि । इयं चन्द्रकीर्तिप्र. णीता टीका अत्राणामतीवोपकारिणी । यतोऽत्र सूत्रस्थानामन्येषां च शब्दाना यावत्प्रयोजन साधनिका विशदतयाकारि । अध्येतृभिरेषा प्रतिपदं निरीक्षिताचेदल्पायासेन महतेऽर्थलाभाय . स्यात् । इत्याखालोच्यतत्पुस्तकमस्माभिः प्रादुरकारि । अत्र च सारस्वतमूलपाठ स्थूलाक्षरेखवार्य तदधश्चन्द्रकीविटीका सूक्ष्माक्षरैरवतारिता । विषमपदबोधिनी टिप्पणी च तदधः सूक्ष्मतराक्षरैः स्थापिता। अतितपूर्व पुस्तके चन्द्रकीर्तिटीकायाः पूर्वार्ष एवोपलभ्यते । परमस्माभिः सा समया समगृह्यत । एतरपरिशोधनं च यावच्छक्यं निपुणया शाकारि । छात्राश्चैतदभ्यस्य वाङ्मयं परिनाय सफलीकुर्वन्त्वस्मदभिलषितम् । यदनाबद्धमपतत्तञ्च सुधीभिः क्षन्तव्यमित्यलं बहुना। मोहमयी. शुद्धा सप्तमी श्रावणस्य बुधवासरः शकान्दाः1601 संस्कर्ता दामोदराचार्यः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 601