Book Title: Sarasvatam Vyakaranam Author(s): Shravak Bhimsinh Manek Publisher: Shravak Bhimsinh Manek View full book textPage 7
________________ संज्ञामक्रिया ॥ १ ॥ (३) देशमतिषेधः । यहा केचिसु बहुव्रीहौ नमोऽनादेशमेव नेच्छन्ति । सवर्णै० आवतस्त्रियां आप प्रत्ययः सवर्णे ० ( द्वि. ए . ) अम् । अम्शसोरस्य | मोनुस्वारः । इति प्रथम लोकसाधना || अथ व्याख्या ॥ प्रणम्य १ परमात्मानं २ बालधीवृद्धिसिद्ध ये ३ | सारस्वतीम् ४ ऋजुं ५ कुर्वे ६ प्रक्रियां ७ नातिविस्तराम् ८ एवमस्मिन् श्लोकेऽष्टौ पदानि सन्ति । अथान्वयः । अहमनुभूतिस्वरूपाचार्यः सारस्वतीं प्रक्रियाम् ऋ सरलां कुर्वे विदधे, लोकप्रसिद्धशब्दव्युत्पादनार्थम् ईषद्रचयामीस्पर्थः । कुर्वे इत्यत्र पठनपाठनादुत्पन्नस्य पुण्यरूपफलस्य कर्तृगामित्वादात्मनेपदप्रयोगो युक्त एव । किंनामधेयां प्रक्रियां सारस्वतों सरस्वतीप्रणीतसूत्रसम्बिन्धिनी मित्यर्थः । ननु शास्त्रादौ मङ्गलाचरणं विना शास्त्रसमाप्तिर्न स्यादत आह । किं कृस्वा, परमात्मानं परमेश्वरं प्रणम्य प्रकर्षेण कायवाङ्मनोभिर्नत्वा परमात्मनि न मस्कृते सर्वेऽपि देवा नमस्कृताः स्युः, यतः, ' यथातरो मूलनिषिञ्चनेन तृप्यन्ति तंत्रस्कन्धभुजोपशाखाः || माणोपहाराच्च यथेन्द्रियाणि तथैव सर्वार्हणमच्युतेज्यया ॥ १ ॥ इति । तथा च मशब्दस्य माङ्गलिकार्थत्वात् आदौ प्रयोगः । यतः, 'प्रशब्दवाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ॥ कंठं भिन्त्वा विनिर्यातौ तस्मान्माङ्गलिकाभौ ॥ १ ॥ इति । ननु प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । अतः प्रक्रियाया ऋजुकरणे किं प्रयोजनमित्यत आह । कस्यै बालधी वृद्धि सिद्धये, सत्स्वपि महाभाप्यादिषु तेषां गहनत्वेन बालानां सम्यगमबोधात् स्वल्पबुद्धीन् जनांस्तेषु चानादरं कुर्वाणान् संभाव्येमां प्रक्रियां वैयाकरणजनबुद्धिवर्धन निष्पत्त्यर्थं कुर्वे इत्पथेः । चिकिर्षितायामपि प्रक्रियायां वक्रत्वकरणे भूयांसो जना निरादरा बोभूयं तन्निरासार्थमाह । ऋजुमिति । सरलामित्यर्थः । सरस्वतीदत्तसूत्राणां क्रममुत्सृज्य योगसाधनार्थं यत्र तत्र स्थितानां सूत्राणामनुक्रममेलनेन ऋजुं सरलां कुर्वे इत्यर्थः । ऋजुरपि प्रक्रिया विस्तरबाहुल्यादृष्येतुमशक्या, अत आह । नातिविस्तरां । विस्तरः शब्दबाहुल्यं तेन रहितां स्वल्पग्रन्थां प्रचुरार्थामित्यर्थः । एतावता सवयपि सूत्राण्पादाय उदाहरणसाधनार्थं बालव्युत्पत्त्यर्थं च दीपिकाकल्पामिमां प्रक्रियां कुर्वे इति भावः । अत्र बालधीवृद्धिः प्रयोजनं १ | शब्दा विषयाः २ । अधिकारिणो बालाः । ३ । प्रतिपाद्यप्रतिपादकभावः संबंधः ४ ॥ इति प्रथमश्लोकस्य व्याख्या ॥ १॥ ॥ इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः॥ ॥ प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम्॥२॥ ननु विस्तरः कथं निरस्त इत्या शंकानिवारकं स्वगपहारसूचकं च द्वितीयPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 601