Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek
View full book text
________________
. संज्ञामक्रिया ॥२॥ एतेषां समानानां हस्वदीर्घटतभेदाः परस्परमन्योन्य सजातीयेन सह सवर्णा भण्यन्ते कथ्यन्ते। यथा अ१-हस्वः, आ२दीर्घः, ३ मुतः, इ१-हस्वः, ई २ दीर्घःई ३ लुतः उ१ -हस्वः, ऊ२ दीर्घः, ऊ ३ छुतः,१ प्हस्वः, ऋ२ दीर्घः, ऋ ३ मुता, ल १ -हस्वः, ल २ दीर्घः, ल लुतः एतेषां समानामेव सवर्णत्वं नतु सन्ध्यक्षराणां तेन हरे ए इत्यत्र । सवर्णे दीर्घः सह इति न भवति । ननु सरस्वती दत्तसूत्रेष्वनुक्तं हस्वादीनां लक्षणं कुत्तो ज्ञायते इत्यत आह लोकादित्यादि। शेषस्य इह व्याकरणे अनुक्तस्य सिद्धिनिष्पचिर्लोकादन्यव्याकरणाज्ज्ञया, लोकाहरुपारंपर्याद्वाऽवगंतव्येति शेषः । अस्य ग्रन्थस्यान्ते इति पदं वक्ष्यति कथयि व्यति । तत इति । ततस्तस्मात्कारणाल्लोकतोऽन्यव्याकरणादेव म्हस्वादिसंज्ञा ज्ञातव्यावथाहि लोकोक्तमेव हस्वादीनां लक्षणमाह ।
एकमात्रो भवेड्स्वो द्विमात्रो दीर्घ उच्यते ।। त्रिमात्रस्तु लुतो शेती व्यञ्जनं चार्धमात्रकम् ॥ चाषस्त्वेका वदेन्मात्रां द्विमानं वायसो वदेत् ॥
त्रिमात्रं तु शिखी बयानकुलश्वार्धमात्रकम् ॥ एका मात्रा उच्चारण कालविशेषो यस्य स एकमात्रो प्हस्व उच्यते ' मात्रा कालविशेषः स्यात, (इत्यभिधानम् ), द्विमानो दीर्घः द्वे माने उच्चारणकालविशेषौ यस्य स द्विमात्रो दीर्घः । तिस्रो मात्रा उच्चारणकालविशेषा यस्य स त्रिमाप्रः सुतः । अर्धमात्रायां भवम् आर्द्धमात्रकं व्यञ्जनमुच्यते । केचियञ्जनं चाई मात्रकमिति नोचरन्ति व्यंजनस्यात्रानधिकारित्वात् । यतः 'चाषो वदत्येकमात्री द्विमानं वापसो वदेत् । त्रिमानं च शिखी बयानकुलश्चार्द्धमात्रकम्, इति ॥ किमेल तावन्त एव भेदा इत्याशंक्याह । ।
एषामन्येऽप्युदाचादिभेदाः सन्ति । उचैरुपलभ्यमान उदात्तः।नीचैरनुदात्तः समवृत्त्या स्वरि
तः । स पुनः सानुनासिको निरनुनासिकश्च । एषां समानानां हस्वादिमिन्नानामप्यन्येऽपि लोकगम्या उदाचादयः'उदातः१ अनुदात्तः २ स्वरितः ३ इति, त्रयो भेदाः सन्ति । उदाचादीनां लक्षणमाह उरित्यादि । वेदपाठकरन्यासे उच्चैःस्थाने उपलभ्यमानः उच्चार्यमाणो वा
-
माप्यमाण:

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 601