Book Title: Sarasvatam Vyakaranam Author(s): Shravak Bhimsinh Manek Publisher: Shravak Bhimsinh Manek View full book textPage 9
________________ संज्ञापक्रिया ॥ १॥ .. (५) कृत्स्नापिशलीशाकटायनः। पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥१॥ .इति द्वितीयश्लोकस्य व्याख्या ॥२॥ तत्र तावत्संज्ञा संव्यवहाराय संगृह्यते ॥ ' अथ प्रथमं संज्ञामक्रियायां विवक्षितायां संज्ञाव्याख्यानसूचिका फकिकामाह तत्रतावदिति । तत्र तस्यां सारस्वतीप्रक्रियायां तावत् आदौ प्रथममेव स्वरादीनां संज्ञा नाम संगृह्यते । कस्मै संव्यवहाराय सम्यक शास्त्रव्यवहाराय शाबं हि संज्ञां विना न सम्यगवबुध्यते, यथा किल, लोकेऽपि श्रूयते; अयं राजा, अयममात्यः, अयं देवदत्तः, अयं यज्ञदत्तः, इत्यादि, तथात्रापि समानादिसंज्ञा शास्त्रं व्यवहाराय संगृह्यत इति भावः। तत्र मातृकायां प्रथमं पठितत्वात प्रथम स्वराणामेव संज्ञामाह । सूत्रम् । अइउऋलसमानाः । . अनेन प्रत्याहारग्रहणाय वर्णाः परिगण्यन्ते । तेषां । समानसंज्ञा च विधीयते । नैतेषु सूत्रेषु संघिरनुसंधेयोऽविवक्षितत्वात्। विवक्षितस्तु संधिर्भवतीति नि यमात् । लौकिकप्रयोगनिष्पत्तये समयमात्रत्वाञ्च ॥ अश्व इश्च उचाच लश्च अइउल (प्र.ब.) साङ्केविकत्वाजस्लोप यतः 'सूत्रे विभक्ति वास्ति वृत्तौ यत्रोपलभ्यते॥ एकत्वं च बहुत्वं च तत्साङ्केविकमुच्यते॥१॥' समानाः, समानं मान तुल्यं परिमाणं येषां ते समानाः(म.ब.) सवर्णदीर्घीयता। भइ उ ल इति प्रत्येकं प्रथमैकवचनान्तानि साङ्केतिकानि पञ्चैव भिन्नानि पदानि समाना इति प्रथमाबहुवचनान्तम् एवं षट्पदमिदं सूत्रं षट्पदत्वमेव युक्तं यतः'संहितैकपदे नित्या नित्या धातूपसर्गयोः॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥' इति । यद्यपि अइको चं मत्वर्थे इत्यादौ च समासेऽपि सन्धिन तथाप्यसावैत्रिकोप विधिरिति । कचित्तु एकाविवि सन्धिरेव दृश्यते । एतत्सूत्रं कार्यद्वयविधायकं वर्णपरिगणनानिरूपकं समानसंज्ञानिरूपकं वेत्यर्थः। तदेवाह । अनेनेति। अनेनोववक्ष्यमाणसूत्रसमुच्चयेन प्रत्याहारग्रहणाय वर्णा अक्षराणि परि सामस्त्येन गण्यन्ते संख्यायन्ते परिपाट्या प्रकाश्यन्ते, च पुनस्तेषां पूर्वोकानाम् अइउऋल अक्षराणां समानसंज्ञा समानइति नाम विधीयते क्रियतेऽथवाऽभिधीयते कथ्यते ननु पंचानामकारादीनां न्यासर्वसदृश्ये कथं समानसंज्ञा संजाघटीतीत्पमोच्यते ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 601