Book Title: Sarasvatam Vyakaranam
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 14
________________ (१०) सारस्वते प्रथमवृत्तौ । हयरलवेति । हश्च यश्च यावत् सश्च इति द्वंद्वः (म. ब.) सांकेतिक हय. यावदाधन्ताभ्यां द्विपदं आदिश्च अन्तश्च माद्यन्तौ ताभ्यां (तृ. वि. ) अदि पद्वा हयरलेति त्रयस्त्रिंशदपि प्रथमैकवचनान्तानि सांकेतिकानि पदानि आयन्ता भ्यो तृतीयाद्विवचनान्तं एवं चतुर्विंशत्पदं सूत्रं । केचित्तु आद्यन्ताभ्यां इत्येकपदं सूत्रं पृथक् मन्यन्ते । क ख ग घ ङ इति क्रमं विहाय ह य व र लेति क्रमः प्रत्याहारग्रहणार्थ कृतः।प्रत्याहारमिति प्रतिकार्यमाव्हियत इति प्रत्याहारस्तं प्रत्याहारं जिघृक्षता ग्रहीतुमिच्छता छात्रेण पुरुषेण वा आद्यन्ताभ्यां कृत्वा आवन्तवर्णाभ्यां सह एते हकारादयः सकारपर्यन्ता वर्णात्रयविशद्धसा ग्राह्याः ॥ प्रत्याहारं व्यन्जयबाह आदिवर्ण इति आदौ वर्ण आदिवर्णः सोऽन्तस्थेन वर्णन अक्षरेण सह गृह्यमाणो अबप्रत्याहारादिस्तन्नामा प्रत्याहार उच्यते । अकार इत्यादि। सुमम । स च अबप्रत्याहारः इत्येतावत्संख्याक इति इत्यमुना प्रकारेण एवावती एकोनत्रिंशद्वर्णपरिमाणां संख्यां यावत् सम्पद्यते एवं च ट त कप इति पञ्चमिरक्षरैश्चपप्रत्याहारो भवति आधन्वयोश्चकारपकारपोर्ग्रहणेन चपः एवं ज ड द ग ब इत्यत्र जकारबकारयोर्ग्रहणेन जबः । एवं झढ ध घ भ इत्याद्यन्तयोझंकारभकारयोग्रहणेन झभः। एवं अमुना प्रकारेण यत्र यत्रोदाहरणे येन येन प्रत्याहारण सह कृत्यं कार्य भवति स स प्रत्याहारस्तत्र तत्रोदाहरणे ग्रामः संख्यानियमस्तु नास्ति । यत इयन्त एव प्रत्याहाराः सन्तीति केप्याहुः। अनियम व्यावर्तयितमाह । संख्यति । अयमर्थः । न नियमः अनियमः संख्पाया अनियमः संख्यानियमः प्रत्याहाराणां संख्याया अनियमो नास्ति किं तहि नियम एव, कथम् । इसो १ झबो २ जबश्चैव ३ यपो ४ अब ५ इल ६ श्वपः ॥७॥ अमो ८ झभः ९ खशः १० मोको झस ११ श्च छत ईरितः ॥१॥ यमो १३ हबः १४ खप १५ श्वोक्तो डबश्च १६ ढम १७ इण्यने । रसो १८ वस: १९ शसः २० ख्यातो झपो २१ जस २२ उदाहृतः॥ २ ॥ औ २३ उच्यते ततः प्राज्ञः प्रत्याहारा उदीरिताः ॥ सौना एते स्फुटं ज्ञेयास्तथान्ये च यथामति ॥ ३॥ यदि वा भ १ वल एकैकस्मात् द्वाभ्यां मः २ स्यात् प बौ ४ चतुर्दास्तु ॥ सः ६ वड्भ्यः स्यादित्थं प्रत्याहारास्तु विशति याः॥ १ ॥ झम १ अव २ इल ३ छत ४ यम ५ त्रम ६ यप ७ झप ८ खप ९ चप १० अब ११ हब १२ झब १३ जब १४ इस १५ बस १६ रस १७ झस १८ घस १९ शस २० एवं विशतिः प्रत्याहारा: ॥६॥ अथ हसानां संज्ञामाहं । सूत्रम् ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 601