Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 24 अनुसन्धान ३६ कवि कृतिनां आरम्भ अने अन्तमां भगवद्भक्तिनी ज वात करी छे ए समग्र मानव भवना जीवनसाररूप सद्गुणो-बळ-नैतिकता-नम्रता परद्रव्यरनिस्पृहा बधुं ज भगवाननी भक्ति माटे उपयोगी छे. अने एनां फळ रूप पण छे. श्रीपार्श्वजिनमानम्य पूर्वदिग्वाक्कृतां स्वयम् । सूक्तिद्वात्रिंशिकां भाव-भेदतो विवृणोम्यहम् ॥१॥ तत्रादौ निर्विघ्नतायै मङ्गलमाचरन् कविः सरस्वतीनमस्करणरूपं, प्राकृताविर्भूतभाषागुणतया प्राकृतगाथयैव तन्मङ्गलमाचष्टे. यथा - सुहवरनाणनिआणं साणंदं सिरिसरस्सई नमिउं । अप्पसुबोहसवित्तिं सुत्तिसुदुत्तीसिअं बेमि ॥१॥ अहं सूक्तिद्वात्रिंशिकां ब्रवीमि इति ग्रन्थाभिधानं लोकभाषया 'सुभाषित बत्रीशी' इति सूचितम् । तत्कथनप्रयोजनमाह - किंभूतां ? - आत्मनः सुबोधः - सुज्ञानवत्ता, तस्य सवित्रीमुत्पादयित्रीम् । अत एव लोकेऽपि ज्ञानवतो जनस्य सुवाक्यभाषणं यश:सञ्जाननं, प्रसिद्धमिदमेव प्रयोजनम् । किं कृत्वा ? - सानन्दं हर्षप्रकर्षेण, श्री सरस्वती नत्वा । कीदृशीं ? - शुभं कल्याणकारणं, वरं प्रधानं यत् ज्ञानं, तस्य निदानं मूलकारणम् । यदुक्तम् - "सरस्वतीप्रसादेन काव्यं कुर्वन्ति मानवाः" । इत्याधुक्तिवशात्, इति प्रथमगाथार्थः । __ अतो दोधकवृत्तैरेव ग्रन्थग्रथनं, तदादावपि मङ्गलाचरणकरणार्थं पूर्वदोधके भगवद्भजनलक्षणप्रतिपादिनी शिक्षा वक्ति मूल-दोहा - 'भगत भाइ ! भगवंत भजि, गुहिर गरीबुनिवाज । देखि बिभीषन कुं दयउ, रावणगढ कुं राज ॥१॥ व्याख्या - हे भक्त ! सरलहृदय ! त्वं भावेन भगवन्तं भज सेवय । किंभूतं ? गंभीरं प्रणतजनगुणागुणादिविचारकारिणं । पुनः कीदृशं ? - गरीबुनिवाज इति दीनोद्धरणदक्षम् । तत्स्वरूपं दृष्टान्तेन दृ(द्र)ढयति - श्रीरामेण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18