Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 26 अनुसन्धान ३६ मूल दोहा सधर सरण डरिं अरि सधर, जनमि न चितवहि जंग | हर - गिरिजा के वृषभ - हरि सुपरि रहइ इक संग ॥५॥ व्याख्या - सधरो माहात्म्यवान्, तस्य शरणं चरणसेवनं, तस्य भयेनेति, अस्य रक्षिता बलीयान् इति विचिन्त्येति, सधरो पि बलवत्तरोऽपि, अरिः सपत्नो, जन्मनि इति आजीवितान्तं कलहं न चिन्तयति । तदेव दृष्टान्तेनाऽऽविर्भावयति- (हरे :) ईश्वरस्य यानं वृषः, पार्वत्या हरिः सिंहः, द्वावपि निर्विरोधवृत्त्या एकस्मिन् सङ्गे तिष्ठतः परं वृषभस्य चेतसि किञ्चिदपि भयं नोत्पद्यते, तद् रक्षितुरेव निदानम् इति भावार्थ: ॥५॥ · अथ कथमपि विपदं प्राप्य समथैः समर्थ एव सेव्यः यथाऽनडुहा महादेवः श्रितस्तथा इति तात्पर्यमाविष्करोति मूल दोहा सकज ! सुकजि सेवहु सकज, न धरहु नीच जगीस । गिरि तपु घन मेटति गुहिर, निफर नदी नव वीस ||६|| व्याख्या समर्थाः ! स्वकार्यसिद्ध्यर्थं समर्थानेव सेवयत परं विपत्प्रतीकाराय । नीचैर्वृत्तिपरेभ्योऽर्थान्नीचजनेभ्यः स्वाशापूरणं मा धारयत 1 यथा दृष्टान्तमाह गिरेः महापर्वतस्य, तपं ग्रीष्मर्तुजनिततापं, मेघ एव बहु वृष्ट्वोपशामयति, पर नवविंशतिर्नद्यः इति विंशतिहीनं शतद्वयं नदीनामुपरि वहन्ति, तथापि निष्फला भवन्ति इति, अर्थात् तापं न शमयन्ति इति तत्त्वार्थः ||६|| - 7 अथ च सुपार्श्वसेवया हरवृषभ इव सुष्ठु नैव भवतीति सुवास - वास्तव्यविधिर्वरतर इति दर्शयितुकामो निरूपयति : मूल दोहा - सारंग पास सुवास के जिहिँ तहिँ बिधि रिधि जोइ । निंबादिक नग मलय के सोरंभ पावहिँ सोइ ||७|| Jain Education International व्याख्या - कविः स्वाभिधां स्वात्मोपदेशरूपद्वारेण परोपदिष्ट्या वक्ति कुहचित्, तत्र हे सारंग ! सुवासस्य इति स्वाश्रयस्य ( १ ) सुरभिस्थानस्य (२), द्वयर्थोऽयं शब्दोऽवगन्तव्यः । पार्श्वे समीपे वसनशीलस्येति शेषः, यथा कथञ्चित् प्रकारेण ऋद्धिः सम्पत् सम्पद्यते । यथोदाहरणहेतुना दृ (द्र ) ढयति मलयपर्वतस्य निम्बादयोऽपि कटुतरतरवः तेऽपि तदेव सौरभ्यं सुगन्धं प्राप्नुवन्ति । 7 For Private & Personal Use Only — www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18