Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ September-2006 अत एव लोकोक्त्या मलये चन्दनतरुसुरभिणा वायुप्रचारेण निम्ब- करीरादिषु (सुरभि ) सम्भवतीति श्रुतमिह प्रसिद्धम् ॥७॥ अथवा यथा निम्बादिभिः सुसंसर्गतो माहात्म्यं प्राप्तं, तथोत्तमकरादिलग्नो निर्बलोऽपि जन: शोभते इति एतदेवाऽऽहं मूल दोहा - उत्तम के आदरि अबल, सुन्दर पावइ सोह । ललना के करि लोह की, मुद्रा जनमन मोह ॥ ८ ॥ व्याख्या उत्तमानां आदरेण महत्त्वप्रदानेन अबलोऽपि सर्वप्रकारेण क्षीणोऽपि सुन्दरां जगन्मोहजननीं शोभां प्राप्नोति । अमुमेवार्थं परार्थसंसूचितदृष्टान्तेनोपदर्शयति यथा ललनायाः विलासिन्याः करे स्थिता लेहस्य मुद्राऽङ्गुलीयकं तुच्छं निर्मूल्यं दुर्वर्णमपि सुसङ्गत्या जनानां मनांसि मोहयतिइत्यवधार्यम् ||८|| - 27 अथ पूर्वोक्तदोधके 'सुसङ्गः कार्यः' इत्युक्तं, स च स्वसरलतयैव सम्भवति, न तु स्तब्धवृत्त्या इति विवेचनमाहमूल दोहा 1 - Jain Education International - इक तीखे अरु अतितबंध, दरसि उपायहि दुंग | तिही कुं पतन नजीकतर, तरुणी कुच ज्युं तुंग ॥९॥ व्याख्या - एकतो ये प्रकृत्या तीक्ष्णाः, तथाऽतिस्तब्धा: अनमनशीलाः, पुन आत्मानं दर्शयित्वाऽन्येषां चेतसि वह्निवत् परितापमुत्पादयन्ति तेषां पतनं अधोभावः स्तोकैरेव दिनैः अवगन्तव्यमित्यध्याहारः । यथा तदेव सूचयति के इव ? - तरुणीनां तुङ्गा उन्नता: कुचा इव तेऽपि पूर्वोक्तदोषदूषिताश्चिरं नोदयोन्मुखास्तिष्ठन्ति स्वल्पकालेनैव पतन्तीति भावः ॥९॥ - अथ पूर्वोक्ततैक्ष्ण्यादिदोषपरिहारो विवेकक्त्ता चैव स्यात् सा कुत्र भवतीत्याशङ्क्याऽऽह मूल दोहा - पख - भख चख - रुख जिही पवर, तिहीं तनि तकहु विवेक । पययुग पटंतरि हंस सओ, ओर न पंछी एक ॥१०॥ येषां एते चत्वारः पदार्थाः प्रवराः श्लाघनीया भवन्ति । के ते १. प्रथमत: पक्षशुद्धि: मातृ ( ता ) पित्रोः पक्षद्वयं शुभम् । अथ भक्ष्यमाहारो मांस-मद्यादिरहितं विमलमनुच्छिष्टमिति यावत् । तृतीयं चक्षुः कुव्यापारवर्जकं व्याख्या For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18