Book Title: Sarangmuni Pranit Sukti Dwatrinshika
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
September-2006
अथ पिशुनाधिकारात् - अस्मिन्संसारे वको जनः लोकान् संतर्जयतीति मनसि मन्यमानाः स्वसुखहेतवे तं बहुतरं पूज्यमिव सरलाः मन्यन्ते - इत्येनमेवार्थं श्रावयति
मूलदोहा - कलिजुगमिं जग कुटिलकुं, बहु मनि मानहि बीह । चितऊ दुतीय चंद की लख जन बंदहि लीह ||१३|| व्याख्या - कलौ युगे अर्थात् दुष्टेऽस्मिन् तुर्ये युगे, जगच्छब्देन सर्वे लोकाः, कुटिलस्य वक्रस्वभावस्य मनुजस्य, भयं बहुतरं मनसि स्वचेतोन्तरे मन्यन्ते चिन्तयन्ति, अर्थात् स्वकार्यसिद्ध्यर्थं तमाश्रयन्ति । यथा दृष्टान्तं दर्शयतिहे ! सज्जनाश्चिन्तयत विचारयत, द्वितीयाचन्द्रस्य कुटिलवृत्त्या निर्णतां रेखामपि लक्षं जनाः वन्दन्ते, तदुदयदिशं सन्मुखमुद्दिश्य, न तथाऽनुक्तमपि पूर्णचन्द्रं सरलं कोऽपि प्रणमतीत्यर्थोऽवगम्यः ॥१३॥
सा तु पूर्वोक्तशिलेखा देवपारणकृते स्वतनौ पराभवमनुभूय पश्चात् पुनः स्वसाहसोत्पादितदेवर्षिप्रसत्तेरुदयं क्रमेण प्राप्नोति इति लोकोक्ति मनोगोचरीकृत्याठन्तरदोधके तमेवार्थं दृढयति
मूल दोहा
-
व्याख्या यः कश्चिज्जनः प्रथमं कियत्कालं यावत्, परिभवं परकृतघातपातादिदुःखं सहते, तस्यैव कतिचिद्दिनान्तरं उच्चैः स्थाने स्थितिरवस्थानं भवति । अतस्तदेवार्थं हेतुना सङ्केतयति यथा घनैः कुम्भकारकृतघातैर्घटितो घटः, निदाने पश्चादेव नारीशिरसि चटति स्थितिमालम्ब्य तिष्ठति इत्यवधार्यम् ॥१४॥
अथ कथं मृत्पिण्डोत्पन्नो घटः पदमुच्चमेतीतिशङ्कानिराकरणाय पुन
निगदति
प्रथम सहइ परिभव प्रगट, थिति तसु उंचहि थान । घट घण घाइ घरिओ चढहि, नारीसीसि निदांन ॥ १४ ॥
व्याख्या
Jain Education International
-
मूल दोहा
29
गुरुता होति नख्यत्रगुण, वर कुल बरु न विचारी । जन धनवंत जबाधि कुं पकरइ पाणि पसारि ॥ १५ ॥ हे सुजनप्रवर ! गुरुत्वमुच्वत्त्वं महत्त्ववत्त्वमिति यावत्, नक्षत्रगुणेनेति सद्भाग्ययोगजातजन्मना भवति, परं तत्र वरं प्रधानं कुलं तस्य
बलं कारणं मा विचारय ।
-
For Private & Personal Use Only
—
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18